________________
परिशिष्टम् - १ ३. असंज्ञोपसर्जनं सर्वादिः
असंज्ञानुपसर्जनं च सर्वादिः सर्वनामसंज्ञो भवति । परिसंख्यातोऽयमाचार्यैः । अन्यतमस्त्विह गणे न पठ्यते । अन्यतमस्मिन्निति च शिक्षायुर्वेदादिषु च दृश्यते । कीर्तिना द्वयमपि गणेऽत्र पठितमेव । असंज्ञेति किम् ? सर्वाय च्छात्राय । अनुपसर्जनमिति किम् ? प्रियसर्वाय, अतिसर्वाय । तदन्तस्यैवायं प्रतिषेधः । बहुव्रीहाविति वचनन्त्वतदन्तार्थम् । तेन ‘त्वकत्पुत्रः, मकत्पुत्रः' इत्युपसर्जनेऽपि सर्वनामत्वं स्यात् ।। ३ । ४. पूर्वादिर्व्यवस्थायाम्
४९३
अवधिमत्तावश्यकं ब्यवस्था । तस्यामसंज्ञोपसर्जनं पूर्वादिः सर्वनामसंज्ञो भवति । पूर्वस्मै, परस्मै ग्रामाय । व्यवस्थायामिति किम् ? पूर्वाय प्रतीताय । दक्षिणाय, प्रवीणाय || ४ |
५. स्वमज्ञातिवित्ताख्या
न चेज्ज्ञातिवित्तयोराख्याभूतं स्वं सर्वनाम भवति । स्वस्मै हितम्, स्वस्मै ग्रामाय । अज्ञातिवित्ताख्या इति किम् ? स्वाय ज्ञातये, वित्ताय वेत्यर्थः । आख्याग्रहणं पर्यायत्वार्थम् । इह स्यादेव – स्वस्मै ज्ञातये, स्वस्मै वित्ताय । तुल्यादिकरणत्वादिहापि ज्ञातिवित्तयोः स्वं वर्तत एव || ५ |
६. अन्तरमुपसंव्याने बहिरपुरि
वस्त्रेणावृतं परिधानमुपसंव्यानम्, तत्र वहिरर्थे च पुरोऽन्यत्रान्तरं सर्वनाम भवति । अन्तरस्मै वस्त्राय, अन्तरस्मै गृहाय । अनयोरिति किम् ? ग्रामयोरन्तरे तडागः । अपुरीति किम् ? अन्तरायां पुरि, अन्तरे नगरे । एनोऽपि नपुंसकमन्यादौ मन्तव्यः । इदमानय, अथो एनत् परिवर्तय । नपुंसकैकवचने एनदिति वार्त्तिकम् । अपरे तु एनदिति सूत्र एव पठन्ति । तत्र त्यदाद्यत्वाभावे तश्रुतिरेव स्यात् || ६ | ७. वा तीयो ङवत्सु
+
तीयप्रत्ययान्तं ङवत्सु सर्वनाम भवति वा । द्वितीयस्मै, द्वितीयाय । तृतीयस्मै, तृतीयाय । अकि च द्वितीयकस्मै, तृतीयकस्मै । कप्रत्यये तु न स्मैप्रभृतयः स्युः ॥ ७ ॥