________________
४९२
कातन्त्रव्याकरणम्
अन्यथा अव्ययगणे तेषामुपदेशोऽनर्थकः स्यात् । अनर्थकानामक्प्रत्ययोऽपि हि नास्तीति । एकवाक्यतायां तु अव्ययमात्रात् स्यादयो ज्ञाप्यन्ते । नन्वेकवाक्यतायां पारिशेष्यादेव वृक्षादिभ्यः स्यादयो भविष्यन्ति न धातुभ्यो नानर्थकभ्य एकत्वादिविरहात् । नापि पदेभ्य एकत्वादेरभिहितत्वात् । ततश्च नलोपादिविधौ स्यादिप्रकृतेरित्युक्तेऽप्यभिमतं सिध्यति किमनया संज्ञया ? नैवं वाक्यार्थस्यैकत्वस्यापह्रोतुमशक्यत्वात्, वाक्यादपि प्रथमैकवचनं स्यात्, वर्जग्रहणस्याभावात् । किञ्चाभिहितमपि संख्यानं वचनान्यनुवर्तन्ते । यथा - एकब्राह्मणः, त्रिचतुराः, सप्तर्षयः, पञ्चाम्राः । ततश्च पचति, पचतः, पचन्तीति कुतो न तान्यनुवर्तन्ते ।
किञ्चाभिहितेऽपि संख्याने भवत्येकवचनमौत्सर्गिकम् । यथा पचतिरूपम्, पचतोरूपम्, पचन्तिरूपमिति, एवं स्याद्यन्तादपि स्यात् । किञ्च लुनीहि लुनीहीत्यादौ संख्या तिरोहितेति तदभिव्यक्तये ह्यन्तरङ्गाः स्यादयो भवितुमर्हन्तीति । किञ्च 'स्थीयते, भूयते' इत्यादौ आख्यातैकवचनवद् धात्वर्थमात्रे विवक्षिते धातोरप्येकवचनं स्यात् । भिन्नवाक्यप्तायां तु निपातादिव निरर्थकादपि पदादपि वाक्यादपि बाधकानवसरे धातोरपि स्यादयः प्रसज्येरन् । भिन्नवाक्यता चाव्ययेभ्यः स्याद्युत्पत्त्यर्थमवश्यमिहाश्रयणीया । ज्ञापकात् तेभ्यः स्यादय इति चेत् ज्ञापकेन किमिह प्रत्याख्यातुमशक्यम् । ईषदसमाप्तौ नाम्नः प्राग् बहुजिति तमादिनिपातनेऽवश्यमिह मन्तव्यम् । बहुजर्थेन बहुना नाम्ना कर्मधारये बहुपत्येति अग्नित्वं स्यात् । बहुराजा, बहुसखा, बहुगौः, बहुपन्थाः, बहुधूरित्यादौ समासान्तोऽत् स्यात् । वीरबहुबाहुना, वीरबहुकायेन, वीरबहुमेघेनेति पदव्यवाये णत्वं न स्यात् । बह्वयस्कुशा, बह्वयस्कर्णिरित्युत्तरपदस्थत्वात् सत्वं न स्यात् । बहुसर्पिष्कुण्डिका, बहुधनुष्कुलम् इत्युत्तरपदस्थत्वाद् इसुसोः षत्वमनित्यं स्यात् । बहुदण्डी, बहुपयस्वी, बहुलक्ष्मीवान् इति कर्मधारयादिनादिरपि न स्यात् ? बहुजर्थे बहुरिति भाष्याद् बहुजर्थेन बहुना कर्मधारये बहुपतिनेत्यादिना बहुनृत्यति, बहुगायतीत्यादिना च भवितव्यमिति लक्ष्यते । तथापि बहुपत्येत्यादि उदाहृतरूपसिद्ध्यर्थं बहुविधानं कर्तव्यमेव ।। १ ।
२. सर्वनाम आसंज्ञान्तरं संज्ञात्वेनेदमधिक्रियते ।।२।