________________
॥श्रीः॥
परिशिष्टम् -१ आचार्यश्रीप्रतिदत्तप्रणीतम् कातन्त्रपरिशिष्टम्
नामप्रकरणम्
१. धातुः
इह लिङ्गसंज्ञाविधौ न किञ्चित् परिशिष्यते । तथा ह्यर्थवद् इति सतोऽसतो वाऽर्थस्याभिधायकमुच्यते । तच्च विशिष्टमिह गृह्यते । यस्येतरनिरपेक्षयाभिधानशक्तिरस्ति, तदिहार्थवत्त्वस्येयं संज्ञा । अन्यथा धातुविभक्तिवर्जमर्थे लिङ्गमिति कृतं स्यात् । प्रत्ययास्तु नियोगतः प्रकृतीरनुगच्छन्तस्तदर्थानपेक्ष्यैव स्वार्थानभिदधानाः कथमनपेक्षतया अर्थवन्तः स्युः । विभक्तिवर्जनं तु तदन्तार्थम् । विकरणागमयणादयस्त्वनर्थका एव सत्स्वपि हि तेषु प्रकृतिप्रत्ययाभ्यामधिकार्थाप्रतीतेः, तत् कथं बहुचि विकरणादौ चास्याः प्रसङ्गः । किञ्च एकदेशात् समुदायः प्रधानं तत्रैव ज्यायसी शास्त्रप्रवृत्तिरिति कुतोऽन्यत्र प्रसङ्गः । तथा च 'अवयवसिद्धेः समुदायसिद्धिबलीयसी' (व्या० प० पा० १०८) इति वार्त्तिकम् । एवमपि विभक्तिवर्जनं पूर्ववत् । अर्थवद्ग्रहणं तु इहानर्थकस्यैवानुकरणस्य निषेधार्थम् । एतेनापदस्यानुकरणस्य प्रयोगः साधीयानित्याचार्येणावेदितम्, 'यथा गवित्ययमाहेति । ऐकान्तिकी चेहाचार्यप्रवृत्तिापयति- वाक्यस्य नेयं संज्ञति ।
अथवा नञा सिद्धेर्यद् वर्जग्रहणं तद् वर्जनीयस्याधिक्यसूचनार्थम् । भवत्यक्षराधिक्यादर्थाधिक्यमिति वृद्धाः स्मरन्ति, तेन वाक्यस्यापीह प्रतिषेध इति । अनर्थकेभ्यस्तु निपातेभ्योऽव्ययगणे पाठाद् भिन्नवाक्यतायामपि विभक्तयः समर्थनीयाः ।