________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
कारितं धात्वर्थे” (३।२ । ९) इतीन् । “ ते धातवः" ( ३ । २।१६) इति धातुसंज्ञायाम् इनन्तात् क्विपि कारितलोपः । गर्दभो भाव गर्धप्त्वम् । दामलिडिति । दामढीति क्विपि उपपदस्यात्र तृतीयादित्वम्, न धातोः । विक्रुदिति । विपूर्वात् 'कुप क्रुष रुष रोषे' (३।६८) । विक्रुध्यतीति क्विप् । अकृतवदिति । हकारोपादानबलादिह प्रागेवादिचतुर्थत्वे हकारस्य दादित्वाभावात् “दादेर्हस्य गः " ( २ | ३ | ४७) इति गत्वं न प्राप्नोतीति अकृतवद्ग्रहणाद् भवतीत्यर्थः : ।। २७१ ।
४५१
[ क० च० ]
हच० | धातोरिति किम् ? दामलिडिति वृत्तिः । ननु कथं प्रत्युदाहरणं संगच्छते, यावता धातुग्रहणाभावे प्रकरणत्वाल्लिङ्गस्येति लभ्यते, ततश्च "हचतुर्थान्तस्य तृतीयादेः” इति च लिङ्गस्य विशेषणे 'निघुट्, मित्रध्रुग्' इत्यादि स्वोदाहरणमेव न सिध्यतीति तृतीयादित्वाभावाद् इति चेद् धातोरितिवल्लिङ्गस्यावयवावयविसंबन्धे षष्ठी कर्तव्या । ततश्च 'निघुट्' इत्यादेर्लिङ्गावयवस्य तृतीयादित्वान्न दोषः । एवं तर्हि दामलिडिति प्रत्युदाहरणमेव न संगच्छते । यतोऽत्र लिङ्गसमुदायस्यैव तृतीयादित्वं न त्ववयवस्य कुतोऽत्र प्राप्तिरिति ।
अथ यथा 'मित्रध्रुक्' इत्यादौ व्यपदेशिवद्भावादादिचतुर्थत्वं तथात्रापीति प्रत्युदाहतमिति न दोषः । नैवम्, नात्र व्यपदेशिवद्भावप्रतीति:, टीकाविरोधात् । तथाहि दामलिडित्यत्र न व्यपदेशिवद्भावः इत्युक्तम् ! तर्हि परमदामलिडिति प्रत्युदाहरणं भविष्यति । अत्रावयवस्य दादित्वादिति चेद् इदमप्यसङ्गतमिति । तथाहि "हचतुर्थान्तस्य " इति सिद्धे यदन्तग्रहणं तदिह तृतीयापेक्षया हचतुर्थयोः सामीप्यप्रतिपत्त्यर्थमिति टीकाकारवचनम् । ततः सामीप्ये गृह्यमाणे व्यवधानं विना न संभवतीति वचनादेकवर्णेन व्यवधानमाश्रीयत एव ततो 'गोधुक्' इत्यादिकं न दुष्यति । यत्तु 'आदिचतुर्थत्वम्' इत्यत्रादिग्रहणसामर्थ्याद् मित्रधुगिति सिध्यर्थम् एकवर्णातिरिक्तव्यवधानेऽपि न दुष्यति इत्युक्तम्, तत्तु व्यञ्जनैकपरं बोध्यम्, न त्वनेकस्वरव्यञ्जनपरमिति । अन्यथा समीपप्रतिपादनस्यान्तग्रहणस्य वैयर्थ्यं स्यात् । एकवर्णेनातिरिक्तेन व्यवधानम् एकवर्णातिरिक्तव्यवधानमिति टीकापङ्क्तेरयमर्थः । तस्मात् 'परमदामलिट्' इत्यादिप्रत्युदाहरणस्याप्ययोग्यत्वाद् धातोरिति किम् ? दामलिडिति यदुक्तं तच्चिन्त्यमेव !