________________
कातन्त्रव्याकरणम्
[दु० टी०]
हचतुर्था० । यदि धातोरित्यवयवावयविसम्बन्धे षष्ठीयं हचतुर्थान्तस्य तृतीयादेरिति चावयवस्य विशेषणम्, कथं तर्हि 'गोधुक्, काष्ठधुक्' इति ? सत्यम्, व्यपदेशिवद्भावात् । बुद्धिर्हि भगवती स्वभावपरिपाकवशादुपजायमाना सत्यप्यभेदे भेदं जनयति । यथा 'राहोः शिरः, शिलापुत्रस्य शरीरम्' इति । दाम लेढीति क्विपि कृते नात्र व्यपदेशिवद्भावप्रतीतिस्तर्हि 'परमदामलिड्' इति दुष्यति ? सत्यम् । "हचतुर्थान्तस्य" इति सिद्धे यदन्तग्रहणमिह तृतीयादिमपेक्ष्यानन्तरप्रतिपत्त्यर्थम्, तर्हि 'मित्रभुक्' । परमदर्भयतेः क्विप् परमध इति न सिध्यति ? सत्यम् । “हचतुर्थान्तस्य धातोस्तृतीयादेरादिचतुर्थत्वम्" इति सिद्धे यत् तृतीयादिग्रहणं तदिह चतुर्थान्तमपेक्षते । तेनैकवर्णातिरेकव्यवधानेऽपि न दुष्यति । एतदुक्तम् – एकस्वरस्यादिचतुर्थत्वमन्तरतमं भवतीति । अन्यथा अनवा युक्त्या अस्तु समानाधिकरणलक्षणा षष्ठी तुण्डिभमाचष्टे इतीनि क्विपि कृते 'तुण्डिप, तुण्डिन्भ्याम्' इति । अत्र धात्वेकदेशोऽपि धातुरुपचर्यते ।
हचतुर्थान्तस्येति किम् ? द्विट्, द्विड्भ्याम् । नित्यत्वाद् दादेर्हस्य गत्वे सत्यादिचतुर्थत्वं न स्यात्, अकृतवद्ग्रहणवलात् । प्रागेव आदिचतुर्थत्वम्, हकारोपादानाच्चेति । ननु डत्व – गत्वविधौ ठत्वं घत्वं च किमिति न कुर्यात् । इह हकारोऽकृतवद्ग्रहणं च न करणीयं स्यात् । नैवम् । 'मूलवृट्, मूलवृड्भ्याम् । दृक्, दृग्भ्याम्' इत्यत्रादिचतुर्थत्वं प्रसज्येत । 'अकृतम्' इत्युक्तेऽकृतमिवेति गम्यत एव वद्ग्रहणं सुखप्रतिपत्त्यर्थमेव ।।२७१ ।
[वि० प०]
हचतु० । धातोरित्यवयवावयविसंबन्धे षष्ठीत्याह - धातोरित्यवयवावयविसम्बन्धे षष्ठीत्याह - धातोरवयवस्येति । हचतुर्थान्तस्य तृतीयादेरिति चावयवस्यैव विशेषणम् । यद्येवम्, निगहतीति क्विपि कृते कथं 'निघुट, निघुड्भ्याम्' इति । न ह्यत्रावयवी कश्चिदस्ति । इहैव स्यात् – 'गर्धप्, गर्धब्भ्याम्' इति ? सत्यम्, व्यपदेशिवद्भावात् । तथा ज्ञानं बुध्यते इति क्विप् - ज्ञानभुत्, ज्ञानभुयाम् | ज्ञानबुधो भावः ज्ञानभुत्त्वम् इति । गर्दभयते: क्विबिति गर्दभमाचष्टे इति “इन्