________________
कातन्त्रव्याकरणम्
केचित्तु अन्तग्रहण – आदिग्रहणयोर्व्याख्यानमनपेक्ष्यैव प्रत्युदाहरणमिति समाधानं कुर्वन्ति, तत्तु तैरेवावगम्यते नास्माभिरिति । वस्तुतस्तु धातुग्रहणमुत्तरार्थमेव, तेन 'सर्पिर्भ्याम्, धनुर्भ्याम्' इत्यत्र "इरुरोरीरूरी " ( २ ३ । ५२ ) इति न प्रवर्तते, इसुसो: प्रत्यययोरधातुत्वात् । अकृतवदिति किम् ? 'गोधुक्' इति वृत्तिः । अकृतवद्ग्रहणं गोधुगिति सिध्यर्थमिति भावः । तथाहि अकृतवद्ग्रहणाभावे “दादेर्हस्य गः " (२ | ३ | ४७) इति विशेषवचनाद् गत्वे हान्तत्वाभावे 'गोधुक्' इत्यत्र आदिचतुर्थत्वं न सिध्यतीति । अकृतवद्ग्रहणं दत्वा तु विशेषणत्वेन प्राप्तं गत्वविधिं बाधित्वा प्रथमम् आदिचतुर्थत्वे कृते पश्चाद् अकृतवत्त्वेन दादित्वाद् गत्वं साधयतीति । अत्रैव हकारोपादानादिति पञ्जी, तत्कथं संगच्छते । तथाहि "दादेर्हस्य गः” (२ | ३ | ४७ ) इत्यस्य विषयं परिहृत्य ‘निघुट्' इत्यादावेवास्य चरितार्थत्वात् कथं तस्य सामर्थ्यमुच्यते । न च ‘“हशषष्ठान्ते०” (२ | ३ | ४६ ) इत्यादिना हकारस्य डत्वमेव बाधकमिति वाच्यम् । 'मधुलिड्भ्याम्' इत्यादावेव डत्वविधेश्चरितार्थत्वात् तस्माद्धकारोपादानस्य कथं सामर्थ्यं व्याख्यायते । नापि परत्वेन हकारस्याधिकसामर्थ्यमिति वाच्यम् 'परान्नित्यम्, नित्यादन्तरङ्गम्, अन्तरङ्गाच्चानवकाशं बलीयः' (का० परि० ५१ ) इति न्यायाद् गकारस्य अधिकबलवत्त्वात् ? सत्यम् ।
1
४५२
अत्र कश्चिज्जरद्गवः यदि निघुडित्यत्रैव हकारस्य चरितार्थत्वं भविष्यति, तदात्र हकारग्रहणमदत्वा डत्वविधौ ढत्वं विधाय गत्वविधौ च घत्वं विधाय चतुर्थान्तस्येति विदध्यात् । तथा च उमापतिः
―
-
दादेर्हस्य कृते घत्वे ढत्वे डत्वविधावपि ।
कार्ये आदिचतुर्यत्वे हकारग्रहणेन किम् ॥
तस्माद्धकारग्रहणबलात् सर्वं हान्तं प्रति व्याप्त्या गत्वमपि बाध्यत इति बहु प्रलपति । तदसङ्गतमेव स्फुटम् यावता 'मूलवृट्, द्विजिट्' इत्यादौ चतुर्थत्वप्रसङ्गस्य दुर्निवारत्वमिति । अन्ये तु ‘निघुट्' इत्यादौ नित्यत्वाड्डत्वेऽत्र हकारग्रहणमनर्थकं स्यात् तत्र वक्तव्यम् – हकारोपादानबलादवश्यमेव प्रागादिचतुर्थत्वम्, अतो हकारोपादानबलादेव प्रागादिचतुर्थत्वमिति निश्चीयते, तद्वद् 'गोधुक्' इत्यत्रापि प्रागेवादिचतुर्थत्वे हकारस्य “दादेर्हस्य ग.” (२ | ३ | ४७) इत्यनेन विहितं गत्वं न प्राप्नोति, दादित्वाभावात् ।