________________
नामचतुष्टया याये तृतीयो युष्पत्पादः देवेट्त्वम् । रज्जुसृट्, रज्जुसृड्भ्याम्, रज्जुसृट्त्वम् । 'यज्, सृज्, मृज्, राज्, भ्रज्, भ्रस्ज्, व्रश्च्, परिव्राज्' एते यजादयः ।।२६७।
[दु० टी०]
हशष० । हशषछा अन्ते येषामिति बहुव्रीहिः । इजेवादिर्येषामिति च । हशषछान्ताश्च इजादयश्चेति द्वन्द्वः । मधु लेढि । सुष्ठु विशति । शब्दं पृच्छति । देवेभ्यो यजति । रज्जु सृजति इति क्विप् । तथा कांस्यं माष्टि - कांस्यमृट्, कांस्यमृड्भ्याम् | संराजते – सम्राट्, सम्राड्भ्याम् । विभ्राजते - विभ्राट्, विभ्राड्भ्याम् । “विवद् प्राजि०" (४।४।५७) इत्यादिना क्विप् । धाना भृज्जति इति धानाभृट्, धानाभृड्भ्याम् । मूलं वृश्चति - मूलवृट्, मूलवृड्भ्याम् । “संयोगादे(टो लोपः" (२।३।५५) । परिव्रजति - परिव्राट्, परिव्राड्भ्याम् । “अन्येभ्योऽपि दृश्यन्ते" (४ | ३ । ६७) इति विण् । इवर्णचवर्गयशानां तालव्यत्वात् शकारस्य विरामे जकारश्चकारश्च प्राप्तः । तथा घोषवत्यघोषे च हकारस्य यजादीनां च गत्वं कत्वं च प्राप्तम् । डत्वमुक्तम् । ऋवर्णटवर्गरषाणां मूर्धन्यत्वाद् अन्तरतमः षकारस्य डकारो भवत्येव ? सत्यम् । षकारग्रहणं ष एवान्ते यस्येति प्रतिपदोक्तार्थम् । तेन ‘सर्पिष्षु, धनुष्षु, सर्पिष्कल्पः, धनुष्पाशः' इति कृते षत्वे न भवति । वचनमिदं ज्ञापयति - ‘लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (का० परि०७५) इत्यनित्योऽयं न्यायः प्रायो वर्णविधिष्विति । तेन वृक्षांश्चरतीति सिद्धम् । अन्यथा "शसि सस्य च नः" (२।१।१६) इति नकारस्य लाक्षणिकत्वात् कुत एतदिति । “छ्वोः शूटौ पञ्चमे च" (४।१।५६) इति छस्य शत्वे शान्तत्वात् सिद्धे छग्रहणं ज्ञापयति 'शकारविधिरनित्यः' इति । तेन 'पथिप्राच्छौ, पथिप्राच्छः' इत्यपि सिद्धम्, तदेतत् पुनरदर्शनेन विरुध्यते इति ।
___ अथ कुल्लक्षणनिरपेक्षमिदं चेत् तदा शान्तं लिङ्गं प्रतिपत्तव्यम् – 'पथिप्राशौ, पथिप्राशः' इत्यादिसिद्धये । अन्तग्रहणे सत्यादिशब्दस्य प्रत्येकं सम्बन्धो नाशझ्यते । इजादीनाम् इत्युक्ते 'इज गतौ' (१।३४५ ईज गतौ) इत्यस्य ग्रहणमपि नाशक्यते आदिशब्दस्य व्यवस्थावाचित्वाद् दृगादिषु ‘ऋत्विज्' शब्दपाठाच्चेति ।।२६७।
[वि० प०]
हशष० । हश्च शश्च षश्च छश्च हशषछाः, ते अन्ते येषां ते हशषछान्ताः । इजेव आदिर्येषां ते इजादयस्ततो हशषछान्ताश्च इजादयश्चेति विग्रहः । इज इति