SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४० कातन्वव्याकरणम् यजेः क्विपि सम्प्रसारणे च निर्देश इत्याह - यजादीनामिति । ननु विशेषाभावाद् 'इज गतौ' (१।३४५ ईज गतौ) इति कथन्न गृह्यते ? नैवम्, आदिशब्दस्य व्यवस्थावाचित्वात्, दृगादिषु ऋत्विज्शब्दपाठाच्च । स हि उत्वापवादार्थो दृगादिषु पाठ उच्यते । यदि वात्र 'इज गती' (१।३४५ ईज गतौ) इति गृह्यते, तदा ऋतौ यजतीति व्युत्पादितस्य ऋत्विज्शब्दस्य डत्वप्राप्तेरभावाच्चवर्गद्वारेणैव गत्वं सिद्धं किं दृगादिपाठेनेति भावः । मधुलिडिति । मधु लेढीति क्विप् । मधुलिट्पाश इति । कुत्सितो मधुलिडिति विगृह्य कुत्सितवृत्तेम्नि एव पाश इति तमादित्वात् पाशप्रत्ययः । सुविडिति । सुष्ठु विशतीति क्विप् । सुविट्तर इति द्वयोरेकस्य निर्धारणे तरः । तथा शब्दं पृच्छतीति “क्विन् वचिपच्छिश्रितुश्रुमुवां दीर्घश्व" इति क्विपि दीर्घः । देवेभ्यो यजतीति क्विपि कृते “के यण्वच्च योक्तम्" (४।१।७) इति यण्वद्भावात् सम्प्रसारणे यकारस्य इकारः । रज्जु सृजतीति क्विप् ।।२६७। [क० च०] हशष० । व्यवस्थावाचित्वेन इष्टाश्रयणं कष्टमित्याह - ऋत्विज्शब्दपाठाच्चेति । ननु दृगादिषु ऋत्विज्शब्दपाठनियमः कथं न स्यात् । क्विबन्तयजशब्दस्य गो भवन् ऋतुपूर्वस्यैव भवति । तेन देवेभ्यो यजतीति देवपूर्वस्य यज्शब्दस्य गत्वं न भविष्यतीति, नैवम् । 'विपिनियमसम्भवे विधिरेव न्यायान्' (का० परि० ८४) इति न्यायात् तत्र विधिरेव कल्प्यते । तदैव विधिः सम्भवति, यद्यत्र यजादिग्रहणेन डत्वप्राप्तौ तदपवादो गत्वविधिः स्यादिति | ननु तत्रैव इजधातोर्ग्रहणं कथं न स्यादित्याह - ऋतौ यजतीत्यादि । रूढिवशादत्र ऋतौ यजतीत्यर्थ एव ऋत्विज्शब्दस्य पाठ इति प्रतिपत्तव्यम् । ननु तथापि अविशेषादिह इज्– यजोर्ग्रहणं कथं न स्यात् ? सत्यम् । एतन्निरासार्थमेवोक्तम् - आदिशब्दस्य व्यवस्थावाचित्वादिति केचित् । वस्तुतस्तु सृजादीनामेकप्रकृतीनां साहचर्याद् इजिरपि केवलव्यञ्जनप्रकृतित्वादेकप्रकृतिरेव गृह्यते इति संक्षेपः।।२६७। [समीक्षा] ‘मधुलिह् + सि, मधुलिह् + भ्याम्, सुविश् + सि, सुविश् + तर + सि, षष् + जस्, षष् + भिस्, शब्दप्राच्छ् + सि, शब्दप्राच्छ् + भ्याम्, देवेज् + सि, देवेज् + भ्याम्, देवेज् + त्व + सि, रज्जुसृज्+ सि, रज्जुसृज् + भ्याम्, रज्जुसृज् + त्व + सि' इस अवस्था
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy