________________
४२९
नामचतुष्टयाध्याये तृतीयो युष्पत्पादः [वि० प०]
उत्वम् । अदसो मादिति । यद्यपि विधेयत्वाद् उत्वमत्र प्रधानम्, तथाप्यदसो नानेन संबन्धः । किन्तर्हि मादित्यनेनाप्रधानेनैव विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् । तेन अदसो मात् परस्य वर्णमात्रस्योत्वं प्रवर्तमानम् अदसोऽन्यस्यापि विभक्त्यादेर्वर्णमात्रस्य प्रवर्तत इति मात्रशब्देन दर्शयति-वर्णमात्रस्येति । अमुम् इति । अदस अम् । त्यदाद्यत्वम् । “अकारे लोपम्" (२।१।१७) इति कृते 'यावत्सम्भवस्तावद्विधिः' (का० परि० ५४) इति पुनरमोऽकारेऽकारस्य लोपः, ततो विभक्त्यकारस्याकारः ।
अमून इति । अदसः शस् । तथैव त्यदाद्यत्वे कृते "शसि सस्य च नः" (२।१।१६) इति दीर्घत्वे पश्चाद् "उत्वं मात्" (२।३।४१) इत्यूकारो दीर्घः । कथम् इति चेदुच्यते, नात्र उकारस्य भाव उत्वम्, अपि तु ऊनां भावः उत्वमिति । तेनेत्यादिबहुवचनान्ता गणस्य संसूचका भवन्तीति तेन ह्रस्वदीर्घप्लुता गृह्यन्ते । ततः "स्थानेऽन्तरतमः" (का० परि० १६) इति न्यायाद् ह्रस्वस्य ह्रस्वो दीर्घस्य च दीर्घ ऊकार इति । प्लुतस्तु लोके प्रतिनियतविषय इति नोदाहृतः ।। २६२ ।
[क० च०]
उत्वम् । मादिति किम् ? अमुकाभ्यामिति वृत्तिः। ननु कथं मादिति खण्ड्यते, स्वोदाहरणस्यैवासिद्धत्वात् । तथाहि 'अमुम्' इति न सिध्यति । अदसोऽमि त्यदाद्यत्वे पुनः “अकारे लोपम्" (२।१।१७) इति कृते मादिति विना अदसोऽवयवस्यैवोत्वस्य प्राप्तत्वाद् अमोऽकारस्योत्वं न स्यात्, अत्र केनचित् सिद्धान्तः क्रियते वर्णादित्युच्यताम् इतीदं न सङ्गतम्, लाघवाभावात् । अन्ये तु 'खण्डितुमेव न शक्यते किन्तु प्रथमकक्षायामेवोक्तम् इत्याहुः' । अपरे तु 'सकृत कृते कृतः शास्त्रार्थः' इति न्यायाद् एकवारम् अकारलोपम् इति कृते पश्चाद् अनेनादसोऽवयवस्योत्वे "अग्नेरमोऽकारः" (२।१।५०) इति अमुम् इति भवेदित्याहुः ।
ननु तथापि 'अमुकाभ्याम्' इति कथमुक्तम् । मादित्यस्याभावे सावित्यस्यानुवर्तनात्, नैवम् । पृथग्योगात् साविति नानुवर्तते इति । वस्तुतस्तु नायं खण्डनपरो ग्रन्थः किन्तु प्रयोजनाभिप्रायक एव नातः काप्यनुपपत्तिः । ऊनामिति ह्रस्वदीर्घप्लुतानां प्रत्येकं व्यक्तिभेदाद् उकारग्रहणेन दीर्घप्लुतयोरग्रहणात् कथं बहुवचनम्, नैवम् । दीर्घप्लुतयोरेकजातित्वाज्जात्याक्षिप्तव्यक्तिभेदेन बहुवचनमिति चेत्, न ।दीर्घप्लुतयोरुत्वं