________________
४२८
कातन्त्रव्याकरणम्
२. असकौ । अदस् + अक्+ सि । पूर्ववत् स् को अ, अलोप , द् को स् अक् प्रत्यय तथा प्रकृत सूत्र द्वारा अ को औ- सिलोप ।।२६१ ।
२६२. उत्वं मात् [२।३।४१] [सूत्रार्थ]
अदस्-शब्दगत (द् को म्) म् से परवर्ती वर्ण के स्थाने में उत्व (उ - ऊ) आदेश होता है ।।२६२।
[दु० वृ०]
अदसो मात् परस्य वर्णमात्रस्योत्वं भवति । अमुम्, अमू, अमून् । मादिति किम् ? अमुकाभ्याम् ।।२६२।
[दु० टी०]
उत्वम् ।मादित्यकारः सुखप्रतिपत्त्यर्थः । अमुम् इति अदस् + अम्, त्यदाद्यत्वम्, 'यावत् सम्भवस्तावद्विधिः' (का० परि०५४) इति पुनरकारेऽकारलोपे कृतेऽमोऽकारस्योत्वं न प्राप्नोति, नायमदसोऽवयव इति । इह स्यात् – अमुष्मै, अमुष्मात्, अमुष्य, अमुष्मिन् इति ? सत्यम् । यद्यपि प्रधानमुत्वमत्र विधेयं स्यात् तथाप्यदसोऽप्रधानेनैव मादित्यनेन संबन्धो विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् । मकाराद् वर्णात् परस्याविशिष्टस्य वर्णमात्रस्य स्थाने उत्वमादेशो भवति, आगमलक्षणाभावादित्याह - अदस इत्यादि । अदसः शस्, त्यदाद्यत्वम्, “शसि सस्य च नः" (२।१।१६) इति दीर्घत्वे सति "उत्वं मात्" (२।३।४१) इत्युत्वस्य केन दीर्घत्वम् । एवम् अदस औः, ईत्वेऽकारस्य घोषवति दीर्घत्वे 'अमू, अमूभ्याम्' इति । नात्रोकारस्य भावः उत्वम्, किन्तर्हि ऊनां भावः उत्वम् इत्यादिबहुवचनान्ता गणस्य संसूचका इति ह्रस्वदीर्घप्लुतानां ग्रहणम् । प्लुतस्तु लोके नियतविषयत्वादिह नोदाहतः । तेन “स्थानेऽन्तरतमः" (का० परि० १६) इति न्यायाद् ह्रस्वस्य ह्रस्वो दीर्घस्य च दीर्घः इति । अदमुयङ् इति । “विष्वग्देवयोश्च" (४।६।७०) अन्त्यस्वरादेरद्र्यञ्चतौ क्वाविति कृते ‘अदद्रे' । रेफस्यार्धमात्राकाललक्षणस्यापेक्षयाऽर्धमात्राकालोऽन्तरतमो ह्रस्वो न दीर्घ इति । यद्यपि युक्तार्थे संख्याविशेषो नास्ति, तथापि भावप्रत्ययबलाद् “अदोऽमुश्च" (२।१।५४) इति अमु- वचनाद् बहुवचनमिह गम्यते ।।२६२।