SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये तृतीयो युष्पत्पादः ४२७ लोपम्" (२।१।१७) इति कृते औकारस्य स्वरत्वे सुतरां सिध्यत्येव । तर्हि स्त्रियाम् 'असौ' इति कथं सिध्यति ? यावता त्यदायत्वे "स्त्रियामादा" (२।४।४९) इति कृतेऽनेन स्त्रियामाकारस्योत्वे कृते स्थानिवद्भावेन औकारस्याप्याकारत्वाद् “ओकारे औ औकारे च"(१९२७) इति न प्राप्नोति । 'असकौ' इत्यत्र चाकारस्य स्थानिवद्भावात् के प्रत्यये इत्यादिना पूर्वस्याकारस्येकारे सति ‘असिका' इत्यनिष्टरूपं स्यात् । न च स्थानिवद्भावादेशो ह्यवर्णविधावित्यनेनौकारस्य वर्णविधित्वेन स्थानिवद्भावनिषेध इति वाच्यम् । यतः स्थानिवदादेशो ह्यवर्णविधावित्यस्य स्वरादेशं प्रति स्वरादेशपरिभाषा बाधिकेति ? सत्यम् । अन्तरङ्गत्वादाप्रत्ययं बाधित्वा औकारः प्रवर्तते । तथाहि प्रकृत्याश्रितत्वादौकारस्यान्तरङ्गत्वं चेत्. नैवम् । स्त्रीप्रत्ययस्यापि प्रकृत्याश्रितत्वेन तुल्यत्वाद् औकारस्य विभक्त्याश्रितत्वेन बहिरङ्गत्वमपि चेत् 'प्रकृतेः पूर्वं पूर्व स्याद् अन्तरङ्गम्' (का० परि० ७१) इति न्यायाद् औकारस्याधिकल्वमिति । यद् वा त्यदाद्यत्वे कृते स्त्रियाम् आप्रत्यये कृते सति "त्यदादीनाम विभक्ती" (२।३।२९) इत्यत्र इत्यतः षष्ठचन्ततयाऽकारस्येत्यधिकाराद् अदसः संबन्धिनोऽकारस्यौकारे कृते निमित्ताभावन्यायादाकाराभाव इति सिद्धम् 'असौ' इति । न च स्त्रीप्रत्ययेन सेर्व्यवधानात् कथम् औकार इति वाच्यम्, आप्रत्ययस्य 'लिङ्गग्रहणेन लिगविशिष्टस्यापि, ग्रहणम्' (का० परि० १७) इति न्यायाद् अव्यवधानताया इष्टत्वात् । नापि के प्रत्यय इत्यस्य विषय इति वाच्यम्, औकारेण व्यवधानादिति ! वस्तुतस्तु अस्मिन् सूत्रे व्यक्तिव्याख्यानमादृतम्, अत एव त्यदायत्वेऽन्तर्व्यक्तिदृष्ट्यैवौकारप्रवृत्तिरिति । कुतोऽकारात् क्रियमाणस्य "स्त्रियामादा" (२।४४९) इत्यस्य प्रसङ्ग इति संक्षेपः।।२६१। [समीक्षा] 'अदस् + सि, अदस् + अक्+ सि' इस अवस्था में पाणिनि तथा कातन्त्रकार दोनों ही आचार्य स को औ, सि (सु) का लोप तथा अक् प्रत्यय करके 'असौ, असकौ' शब्दरूप सिद्ध करते हैं | पाणिनि का सूत्र है - "अदस औ सुलोपश्च" (अ० ७।२।१०७)। अत: उभयत्र साम्य दृष्ट है। [रूपसिद्धि] १. असौ । अदम् + सि । “त्यदादीनाम विभक्तौ" (२।३।२९) से स् को अ, "अकारे लोपम्" (२।१।१७) से दकारोत्तरवर्ती अकार का लोप, “सो सः" (२।३:३२) से द् को स्, तथा प्रकृत सूत्र से अ को औ-सि का लोप ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy