SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४२६ कातन्त्रव्याकरणम् या योऽति। तेन मादा तनासो लक्षणों को [दु० टी०] सावी० । सेरौत्वं न कृतम्, त्यदाद्यत्वे सति स्त्रियां 'हे असौ' इति संबुद्धौ चेत्येत्वं स्यात् । पुंसि च ह्रस्वात् सिलोपः औत्वस्य स्थानिवत्त्वादिति । 'असकौ स्त्री इत्यत्र च "के प्रत्यये स्त्रीकृताकारपरे पूर्वोऽकार इकारम्" (२।२।६५), "औरिम्" (२।१।४१) चापद्यते । 'सेझै' इति कृतेऽपि परत्वात् डानुबन्धेऽन्त्यस्वरादिलोपे कृते पश्चात् त्यदायत्वेऽनिष्टरूपं स्यात् । तस्मात् "सावौ सिलोपश्च" (२।३१४०) इत्युच्यते। कथम् ‘अनुक: पुमान्, अमुका स्त्री, अमुकं नपुंसकम् ' इति ? सत्यम् ! "नृ वा" (२।३।२८) इत्यतो मण्डकप्लुतिन्यायेन व्यवस्थितविपाषानुवर्तते, तेनात्र युक्तस्यौत्वम्, पक्षे सिलोपश्च न भवति । यथा मण्डूको दूरं गत्वा आत्मानं दर्शयति, तथा योऽधिकारः स मण्डूकगतिरुच्यते । “उत्वं मात्" (२।३।४१) इत्यत्र च चकारो वर्तते । तेन मादन्यस्माच्च भवतीत्यर्थः । इहापि व्यवस्थितविभाषयेति । विभक्काविति इहापि वर्तते । तेनासौ पुत्रोऽस्येति 'अद.पूत्रः' 'अन्तरङ्गोऽयं विधिः' इति व्यावर्तनाद् बहिरङ्गो युक्तार्थलक्षणो लोपो भवति, एवम् पूर्वोक्तेष्वपि स्थितम् ।।२६१ [क. च. सावी० । ननु 'सेडौं' इति कृते सिध्यति, किं गुरुकरणेन ? नैवम् । परत्वाड्डानुबन्धेऽन्त्यस्वरादिलोपे पश्चात् त्यदाद्यत्वे सत्यनिष्टरूपं स्यात्, तस्मात् “सावी सिलोपश्च" (२।३४०) इत्युच्यते । अत्र कुलचन्द्रः -- त्यदायत्वापवादोऽन्तस्यौकारो विधीयते इत्युपसंहारार्थमुक्तवान् । एतदनुसारेणैव 'बाधयित्वा त्यदायत्वं सावौ चान्ते प्रनते इति बालेरुख़ुष्यते । तत्सर्वमनुचितम् इति प्रतिभासते, परिभाषावृत्तिविरोधात् । तथा यस्मिन् सूत्रे ओकारकरणादेवासाविति सिध्यति यदाद्यत्वेऽन्तस्य "ओकारे ओ ओकारे च"(१।२।७) इति कृते सिध्यति, असाविति किमौकारकरणेन ? तस्मादौकारकरणं बोधयति - स्वरादेशपरिभाषाऽस्तीति । एतच्च तदैव सम्भवति, यादे प्रथमं त्यदाद्यत्वविधिः प्रवर्तते । तस्मात् त्यदाद्यत्वे कृते पश्चादवारस्य स्थाने औकारे कृते स्वरादेश उपलभ्यते इति । अथ तर्हि 'असौ' इत्यत्राकारस्योत्वे स्थानिवद्भावादेव “ओकारे औ औकारे च" (१।२।७) इत्यविषयत्वात् कधं सिध्यति चेत्, नैवम् । स्थानिवद्भावे “अकारे
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy