________________
कातन्त्रव्याकरणम्
"अद् व्यजनेऽनक्" (२।३।३५) इत्यकारः कुतो न स्यात् "नपुंसकात् स्यमोलपिऽपि विरामयजनादौ" (२।२।६) इत्यतिदेशबलात् प्राप्नोतीति, तस्माद् ‘इदं नपुंसके' इति वक्तव्यमेवेति चेत्, तदयुक्तम् । तत्र अपिग्रहणं व्यभिचारार्थं वक्ष्यति, तेनात्वम् इह न भवति । इदम्पुत्रः इति । अयं पुत्रोऽस्येति विग्रहः ।।२५५ ।
[क० च०]
इदम् । ननु पूर्वसूत्रात् तकारानुवृत्त्या तकारस्यादेशत्रयं कथन्न स्यात्, नैवम् | पुंसि तत्पुरुषः स चेति ज्ञापकात् निःसन्देहार्थं मध्ये इदमोऽपाठाच्च । ननु इदम्शब्द इयमयमापद्यते इत्येक एवादेशः कथन्न स्यात्, नैवम् । कार्यिणो मान्तस्य साहचर्या वर्णत्रितयनिर्देशाच्च मान्तवर्णत्रितयविशिष्ट आदेशः कल्प्यते ।नित्यत्वात् सिलोप इति पनी । नपुंसकात् स्यमोर्लोपस्य कृताकृतप्रसङ्गित्वाद् इत्यर्थः । ननु कथं नित्यत्वात् सेर्लोपः स्यात् 'नित्यादन्तरङ्ग बलीयः' (का० परि० ९३) इति न्यायादन्तरङ्ग इयमादेशः प्राप्नोति ? सत्यम् । नित्यत्वमिह आवश्यकत्वमित्यर्थः । ।
___ अयमभिप्रायः – सौ परेऽन्तरङ्गत्वाद् इयमादेशे सति "नपुंसकात् स्यमोोप" (२।२।६) पुनर्निमित्ताभावन्यायाद् इदम्प्रकृत्युपस्थितौ पुनः प्रत्ययलोपलक्षणन्यायाद् अयमादेशः पश्चात् प्राप्नोतीति सिलोपस्यावश्यकत्वमिति । नित्यत्वाद् व्यञ्जनाच्चेति । सिलोप इत्यादि । ननु कथं नित्यत्वमुक्तम्, कृताकृतप्रसङ्गित्वाभावात् । तथाहि, आदेशे कृते "यजनाच्च" (२।१।४९) इति सेर्लोपः स्यात् । अकृते आदेशे त्यदाद्यत्वेनाकारान्तात् सिलोपो न स्यात् ? सत्यम् । अत्रापि नित्यत्वमावश्यकमेवेत्यर्थः । प्रकारस्तूक्त एव । यद् वा व्यञ्जनान्तस्य व्यक्तित्वाद् व्यञ्जनाच्चेति प्रवर्तते इति ।।२५५ ।
[समीक्षा]
'इदम् (स्त्रीलिङ्ग) + सि, इदम् (पुंलिङ्ग)+ सि' इस अवस्था में कातन्त्रकार ने स्त्रीलिङ्ग में 'इदम्' को 'इयम्' तथा पुंलिङ्ग में 'अयम्' आदेश का विधान किया है । पाणिनीय प्रक्रिया में एतदर्थ अनेक आदेश किए गए हैं । जैसे - "इदमो मः" (अ०७।२१०८) से मकार को मकार, "यः सौ" (अ०७।२।११०) से दकार को यकारादेश तथा पुंलिङ्ग में "इदोऽय पुंसि" (अ० ७।२।१११) से 'इद्' को 'अय्' आदेश ।
व्याख्याकारों ने 'इदम्, इयम्, अयम्' इन तीनों पदों को लुप्त प्रथमैकवचनवाला माना है और सूत्र में दो वाक्य माने हैं । एक के अनुसार 'इदम् इयम् भवति'