________________
४१७
नामचतुष्टयायाये तृतीयो युष्मत्पादः तथा दूसरे के अनुसार 'अयं च भवति पुंसि' यह वाक्यार्थ किया जाता है - "इदमियमयमिति प्रत्येकं लुप्तप्रथमैकवचनम्, अतो वाक्यार्थद्वयम्" (कात० वृ० टी०, पजी)।
[रूपसिद्धि]
१. इयम् । इदम् (स्त्रलिङ्ग) + सि | "व्यानाच्च" (२।१।४९) से सिलोप, "त्यदादीनाम विभक्तो" (२।३।२९) से मकार को अकार, "अकारे लोपम्" (२।१।१७) से पूर्ववर्ती अकारलोप, “स्त्रियामादा" (२।४।४९) से 'आ' प्रत्यय तथा प्रकृत सूत्र से 'इयम्' आदेश ।
२. अयम् । इदम् (पुंलिङ्ग + सि । सिलोप, म् को अ, पूर्ववर्ती अकार का लोप तथा प्रकृत सूत्र से 'अयम्' आदेश ।
३. इदम् । इदम् (नपुंसकलिङ्ग) + सि । “नपुंसकात् स्यमोर्लोपः" (२।२।६) से सिप्रत्यय का लोप ||२५५
___२५६. अद् व्यञ्जनेऽनक् [२।३।३५] [सूत्रार्थ]
व्यञ्जनादि विभक्ति के परे रहते अक् - वर्जित 'इदम्' शब्द के स्थान में 'अत्' आदेश होता है ।।२५६।
[दु० वृ०]
इदम् अग्वर्जितोऽद् भवति व्यञ्जनादौ विभक्तौ । आभ्याम्, एभिः । अनगिति किम् ? इमकैः । साक्षाद् विभक्ताविति किम् ? अस्य पुत्रः इदम्पुत्रः।।२५६।
[दु० टी०] ___ अद् व्य० । एकवर्णोऽप्ययम् अभेदनिर्देशाद् इदमो रूपोपमर्दनेन प्रवर्तते, कुतो भेदलक्षणस्यान्तस्य विधिः । अस्य पुनः षष्ठी विपरिणमय्य सर्वस्यादेशं प्रतिपद्यते, एषामिति निर्देशात् । न च वक्तव्यम् अन्तेऽकारः सिद्धः । अतः सर्वस्य भवति अकारस्याकारः कार्यान्तरबाधनार्थः स्यात्, तकारः सुखनिर्देशार्य एव । सुभोरिति सिद्धे यद् व्यञ्जनग्रहणं तल्लिङ्गत्रयव्यञ्जने भवतीति प्रतिपत्त्यर्थम्, तेन 'पुंसि' इति न सम्बध्यते ।