SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ कातन्त्रयाकरणम् २५०. त्यदादीनाम विभक्तौ । २।३।२९] [सूत्रार्थ] विभक्ति के परे रहने पर त्यदादिगणपठित शब्दों के अन्तिम वर्ण को अकारादेश होता है ।।२५०। [दु० वृ०] त्यदादीनामन्तस्याकारो भवति विभक्तौ । स्यः, त्यौ ! सः, तौ । यत्र, तत्र सर्वनामान्तर्गणो द्विपर्यन्त इह त्यदादिः ! विभक्तादिति किम् ? त्यदीयः ।।२५०। [दु० टी०] त्यदा० । त्यदेवादिर्येषां ते त्यदादयः, सर्वनामसु ये पठ्यन्ते ! सर्वनामसन्निवेशाच्च संज्ञोपसर्जनीभूतानां न भवति । त्यद्, त्यदौ, त्यदः। अतित्यद्, अतित्यदौ, अतित्यदः। ते पुनराद् द्विपर्यन्ता एव युष्मदस्मदोरन्तलोपाद् युष्मदस्मद्भ्यां प्रागपाठाच्च व्यवहितस्य भवच्छब्दस्य न भवतीत्याह - सर्वनामान्तर्गण इत्यादि। केचित् त्यदादीनां या विभक्तिस्तस्यां श्रुतत्वात् त्वदादीनामेव असंज्ञोपसर्जनरूपाणामिति व्याचक्षते । प्रधानानां तु समासे तदन्तविधिना भवत्येव परमसः, परमतौ, परमते । 'सन्निपातलक्षणो दिधिरनिमित्तं तद्विघातस्य' (का० पारे० ३१) इत्यनित्यैव । तथा च तासां स्वसंज्ञाभिरिति निर्देशस्तस्माद् 'या-सा- एषा' इति न दुष्यति । नन्वेकशब्दोऽत्र पठ्यते, तस्य केवलरयाकारे कृते कथं तद्विकारबाधा न स्यात् । एके, एकेन, एकेभ्य इति । नैतदेवम् । त्यदादिषु एकशब्दत्य पाठः । कर्मण्युपमाने त्यदादौ दृशष्टक्सको च, त्यदादिभ्य ईयश्च शेषेऽर्थे दृश्यते इति चरितार्थः, नैवम् । त्यदादीनाम् इति व्यक्तिप्रधानोऽयं निर्देशः । जादौ हि 'मकृल्लक्ष्ये लक्षणस्य चरितार्थता भवति'। सत्यम् । इह तद्गुणसंविज्ञानोऽयं बहुव्रीहिर्गुणाभि-धायी, अवयवैर्विना नावयतीति कारणे कार्योपचाराद् बहुवचनम् | यथा 'देवदत्तादीन भोजय' | एकस्य भोजनेऽन्यस्य भोजनं नास्तीत्यन्यत्र प्रवर्तते । द्विशब्दात् प्राक् पाठः पुनरट्यादेरिति वर्जनं मा भूत् । अतो न चोदनीयम् । द्विशब्दस्य हि च्यवहितस्य न स्यात् "दोऽद्धर्मः" (२।३।३१) इति प्रतिषेधाच्च । अ इत्यविभक्तिनिर्देशः सुखार्थः। न विभक्तिरविभक्तिरिति नाशङ्कनीयम्, कार्यस्याश्रूयमाणत्वात् । अथ दीर्घोऽनवर्तते । स च वचनादस्वरस्यापि भविष्यति, नैवम् । वचनन्तु अविभक्तिनिर्देशे चरितार्थम् , तेषामित्यादिनिर्देशाच्च । आमीति नानुवर्तते इति
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy