SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये तृतीयो पुष्पत्पादः ४०७ विभक्तावित्युत्तरार्थं व । तत्पुत्रो मत्पुत्र इाते विभक्तिव्यावर्तनादेव प्रत्ययलोपलक्षणं न भवति । तसादीनामप्रस्तुतानामपि इह विभक्तिग्रहणेन ग्रहणं "विभक्तिसंका निल्नेयाः" (२।६।२४) इति वचनात् केचित् त्यच्छब्दस्य छन्दसि प्रयोग इति प्रतिपधन्ते ।।२५०। [वि० प०] त्यदादीनाम् । "नृवा" (२।३।२८) इत्यतो वाग्रहणं नानुवर्तते, अनिष्टत्वात् । अ इति लुप्तप्रथमैकवचनम् आदिलोप इत्यादिना लोपः । अथ न विभक्तिरविभक्तिरिति कथन्न भवति चेत्, नैवम्, अन्यस्य विधेयस्याभावात् । अथ दीर्घोऽनुवर्तते इति चेत्, नैवम् । कथमन्यव्यञ्जनस्यासौ भवति, दीघदिः स्वरधर्मत्वात् । वचनबलादिति चेत्, तदयुक्तम् । अ इति लुप्तविभक्तिनिर्देशेनैव वचनं चरितार्थम् । कथमन्यथा कल्पयितुं न्याय्यम् । किञ्च तेषामित्यादिनिर्देशादवसीयते इत्याह - अकारो भवतीति । "विभक्तिसंझा विज्ञया वक्ष्यन्तेऽतः परं तु ये" (२।६।२४) इत्यादिना तसादीनामपि विभक्तित्वम् । अतस्तेष्वपि दर्शयति । यत्र तत्रेति । "त्र सप्तम्या" (२।६।२९) इति त्रप्रत्ययः । सर्वनामेत्यादि । ननु कथं द्विपर्यन्त इत्यवसीयते नहि तत्र वृत्करणमस्ति ? सत्यम् । "एषां विभक्तावन्तलोपः"(२।३।६) इत्यनेनैव युष्मदस्मदोरन्तलोपस्य सिद्धत्वात् । एवं तर्हि भवन्तुशब्दस्य कथन्न भवतीति चेत्,नैवम् । युष्मदस्मद्भ्यां व्यवहितत्वात्, अन्यथा पूर्वमाभ्यां पठेत् ।।२५०। [क० च०] त्यदादीनाम् । ननु यदि अकारः कार्यः स्यात् तदा निःसंदेहार्थम् अद् विभक्ताविति निर्दिशेद् इत्याह – किञ्चेति । वस्तुतस्तु अफाराट् सिलोपोऽपि सूत्रत्वाद् भविष्यतीति । सूत्रत्वं च वचनेनोभयत्र समानमित्याह - किञ्चेति ! आभ्यां पूर्वमेव पठेदिति पत्री । ननु कथम् इदमुच्यते, अथ भवच्छब्दस्प परत्र पाटे फलमस्ति । तथाहि त्यदादिगणपठितानां द्वन्द्वे पूर्वपठितस्य लोपः क्रियते । तथा च श्रीपतिसूत्रम् - "शेषपूर्वयोस्त्यदादिभिः" (कात० परि० का० ८४) इत्यनेन त्यदादिभिः सह द्वन्द्वे शेषस्यात्यदादेः पूर्वस्य च त्यदादेलुंग् भवति । ततश्च अहं च भवांश्चेति द्वन्द्वे भवन्ताविति स्यात् । अत्राभ्यां पूर्वपाठे तु भवांचाहं चेत्येकशेषे वा अत्यनिष्टरूपं स्यात्, नैवम् । अस्मन्मते एकशेषो नास्तीति, किन्तु ईदृशा एव शब्दा ईदृशेष्वर्थेषु
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy