________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
२४९. नृ वा [२।३।२८]
४०५
[ सूत्रार्थ ]
नाम् (नु- आगमसहित षष्ठीविभक्तिबहुवचन- आम् प्रत्यय) के परवर्ती होने पर 'नृ' शब्दगत 'ऋ' को विकल्प से दीर्घ होता है || २४९ ।
[दु० वृ० ]
नृ - शब्दो दीर्घं प्राप्नोति वा सनावामि परे । नृणाम्, नृणाम् || २४९ । [दु० टी० ]
नृ वा । अविभक्तिनिर्देशः सुखार्थः । प्राप्ते विभाषेयम् । नञोऽनुवृत्तौ न किञ्चित् फलम् इति उत्तरत्र वा न वर्ततेऽधिकारस्येष्टत्वात् || २४९ ।
[ क० च० ]
नृ वा । वाग्रहणं किमर्थम्, न ह्यत्र नृ इति क्रियतां तदा " दीर्घमामि सनौ” (२।२।१५) इति दीर्घे सिद्धे वचनबलादेव विकल्पो भविष्यति । तथा वाग्रहणं विना नञोऽनुवृत्तिः कथन्न स्याद् इति चेत् तदा " नृ च, न नामि दीर्घम् " (२।३।२७, २८) इत्येकयोगः कृतः स्यात् । न चैकयोगे चकारकरणं गौरवम् इति वाच्यम्, वरमक्षराधिक्यं न तु भिन्नयोग इति न्यायात् ? सत्यम् । वाग्रहणं स्पष्टार्थमिति हेमकरः । ननु कथमिदमुच्यते, यावता “दीर्घमामि सनौ” (२।२।१५ ) इत्यत्र वाग्रहणनिवर्तने तस्य प्रयोजनम् । तथा च पञ्जी । वाशब्दोऽत्र न वर्तते " नृ बा" इति विकल्पविधानाद् इत्युक्तं " दीर्घमामि सनौ” (२।२।१५) इत्यत्र ? सत्यम् । अत्र स्थिते वाग्रहणे तत्र पञ्ज्यां यदुक्तं तदेव भद्रम्, इह वाग्रहणाभावे तु दीर्घमामि सनावित्यत्र सग्रहणस्य व्याप्त्यर्थत्वेन विकल्पनिवृत्तिरिति व्याख्येयम् । तत्र प्रतिपत्तिगौरवनिरासार्थं सहग्रहणं यदुक्तं तदिह वाग्रहणस्थितावेव बोद्धव्यमिति ।। २४९ ।
[समीक्षा]
'नृ + नु + आम्' इस स्थिति में पाणिनि तथा कातन्त्रकार दोनों के ही निर्देशानुसार वैकल्पिक दीर्घादिश होकर 'नृणाम्, नृणाम्' से दो शब्दरूप सिद्ध होते हैं । पाणिनि का एतद् - विषयक सूत्र है- “ नृ च' (अ० ६ |४| ६) ।
[ रूपसिद्धि ]
१. नृणाम्, नृणाम् । नृ + आम् । " आमि च नुः” (२।१।७२ ) से नु आगम, प्रकृत सूत्र से दीर्घ तथा " रषृबर्णेभ्यः ०" (२।४।४८ ) से नकार को नकारादेशनृणाम् । दीर्घाभाव पक्ष में- नृणाम् ।। २४९ ।