________________
३९९
नामचतुष्टयाध्याये तृतीयो युष्पत्पादः [दु० वृ०]
स्त्रियां वर्तमानयोस्त्रिचतुरो: 'तिस- चतसृ' इत्येतौ भवतो विभक्तौ यथासङ्ख्यम् । तिनः, चतनः । तिसृभिः, चतसृभिः । प्रियतिस, प्रियचतसृ कुलं वा ।।२४६।
[दु० टी०]
स्त्रियामिति त्रिचतुरोरेव विशेषणम् अन्तरङ्गत्वात् श्रुतत्वाच्च न समासप्रकृतेरित्याह - स्त्रियां वर्तमानयोरिति । यदा समासप्रकृतिः पुंसि नपुंसके च वर्तते - त्रिचतुरी च । स्त्रियां तदा तिसृचतसृभावः । यदा समासप्रकृतिः स्त्रियां त्रिचतुरी अपि स्त्रियां तदा नास्ति विशेष इति । प्रियास्तिनः, प्रियाश्चतनो वा यस्य ययोर्येषामिति विग्रहे 'प्रियतिसा, प्रियतिम्रौ , प्रियतिनः । प्रियचतसा, प्रियचतनौ, प्रियचतम्रो ब्राह्मणाः । एवं प्रियतिसृ, प्रियतिसृणी, प्रियतिसृणि कुलानि ।
यदा समासप्रकृतिः स्त्रियां त्रिचतुरी च पुंसि नपुंसके वा तदा न भवतः - प्रियास्त्रयस्त्रीणि वा यस्य प्रियत्रिः, प्रियत्री, प्रियत्रयः । एवं प्रियचत्वाः, प्रियचत्वारी, प्रियचत्वारः । कथं "नपुंसकात् स्यमो.पे तदुक्तम्" (२।२।६) इत्याह - प्रियतिस, प्रियचतसृ कुलं वेति । वाशब्देनैतत् सूचितम् । तदुक्तमपि तत्र नाम्यन्तचतुरां निश्चितम् इति पक्षे प्रियत्रि, प्रियचतुः कुलम् इति बहुव्रीहावृदन्तलक्षण : को न भवति, 'असिद्ध बहिरङ्गम्' (का० परि० ३३) इति न्यायात् । युष्मदस्मदी इव त्रिचतुरी अपि अलिङ्ग इति मतम् । स्त्रियामिति विशेषणं शब्दाश्रयसंबन्धे सति ।
___ अन्यः पुनराह - ‘तिम्रः, चतनः' इत्यत्र 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (का० परि० ३१) इति न वक्तव्यम् । ईप्रत्ययेनापि विना स्त्रीत्वप्रतीतेः । विभक्तिग्रहणं स्वराधिकारनिवृत्त्यर्थं चेत्, नैवम्, "तौ र स्वरे" (२ । ३।२६) इति स्वरग्रहणात् । तर्हि सम्बन्धविभाषानिवृत्त्यर्थं भविष्यति । विभक्ताविति । किमियं परसप्तमी विषयसप्तमी वा । तत्र यदि परसप्तमी स्यात्, नाम्यन्तान्नपुंसकाद् दिहिते स्वरे नुरागम उक्तः । प्रियचतसृणा | नाम्यन्तरत्वात् प्रियतिसृणा च न सिध्यति । विषयसप्तमी चेत्, कथं प्रियत्रि, प्रियचतुः कुलम् इति ! प्रवृत्तत्वात् तदुक्तप्रतिषेधो न स्यात् । अस्तु परसप्तमी, "न नामि दीर्घम्" (२।३।२७) इत्यत्र नकारग्रहणं ज्ञापयति - तिसृचतने ! न्वागमेन रत्वं बाध्यते इति । तेन लिङ्गेन तिसृचतसोनुरवगम्यते । ननु ‘प्रियतिसृणि, प्रियचतराणि कुलानि' इत्यत्र "धुट्स्वराद् घुटि नुः" (२।२।११)