________________
४००
कातन्त्रव्याकरणम्
इति न्वागमे चरितार्थत्वान्न व्याप्तौ प्रवृत्तिः । ज्ञापकं व्याप्तिमेवावधारयतीति । अथवा 'याख्यानतो विशेषार्थप्रतिपत्तिः' इत्येकापीयं सप्तमी द्विधा भियते - तिसृकाः ग्राम इति । इति तिसृ एव तिसृकाः । त्रिशब्दात् संज्ञायां के विहिते तिसृभावः स्त्रीलिङ्गं बहुवचनं च निपातनीयम् । तन्न, लोकोपचारात् संज्ञेयं रूटेति || २४६ ।
[वि० प०]
विच० । श्रुतत्वादिह स्त्रियामिति त्रिचतुरोरेव विशेषणम्, न समासस्येत्याह - स्त्रियां वर्तमानयोरिति । तेन यदा समासप्रकृतिः पुंनपुंसकयोरपि वर्तते, त्रिचतुरी च स्त्रियां वर्तते, तदापि तिसृचतम्रौ भवत एव । यथा – प्रियास्तिन:, प्रियाश्चतस्रो वा यस्य, ययोर्येषामिति विग्रहे प्रियतिसा, प्रियतिनौ, प्रियतिनः । प्रियचतसा, प्रियचतम्रौ, प्रियचतम्रो वा ब्राह्मणा : इत्येवं नपुंसकेऽप्युदाहार्यम् । ननु यदि नपुंसकात् स्यमोर्लोपः क्रियते तदा तदुक्तप्रतिषेधात् कथमयमादेश इत्याह - प्रियतिस इत्यादि । वाशब्देनैतत् सूच्यते तदुक्तमपि कार्यं नाम्यन्तचतुरां तत्र विभाषया भवतीति निश्चितम् । यद्येवमिह बहुव्रीहावृदन्तलक्षण : कप्रत्ययः कथन्न भवतीति चेत्, नैवम् । तत्र बहुलत्वाद् 'असिद्धं बहिरङ्गम् अन्तरङ्गे' (का० परि० ३३) इति न्यायाद् वा इत्यदोषः । पक्षे 'प्रियत्रि, प्रियचतुः कुलम्' इत्यपि भवति ।
यदा तु त्रिचतुरी पुंसि नपुंसके वा वर्तते समासप्रकृतिस्तु स्त्रियां तदा तिसूचतम्रौ न भवतः । यथा प्रियास्त्रयः, प्रियाणि त्रीणि वा प्रियाश्चत्वारः, प्रियाणि चत्वारि यस्या ययोर्यासामिति विग्रहे प्रियत्रिः, प्रियत्री, प्रियत्रयः । तथा 'प्रियचत्वाः, प्रियचत्वारौ, प्रियचचार : स्त्रिय इति । दृष्टानुवृत्तिकतया विभक्त्यधिकारो वर्तते एव, किं विभक्तिग्रहणेन चेत्, नैवम्, स्वराधिकारोऽपि स्यात् । अथोत्तरत्र "तौ र स्वरे" (२।३।२६) इति स्वरग्रहणबलान्नानुवर्तिष्यते । तर्हि सम्बन्धाधिकारनिवृत्त्यर्थम् , तेनेह विभाषा न वर्तते इति सिद्धम् ।। २४६ ।
[क० च०]
त्रिचतुरोः। ननु चतसृणां स्त्रीणां पुत्रः 'चतुः पुत्रः' इत्यत्र "व्यानान्तस्य यत् सुभोः" (२।५।४) इत्यतिदेशबलाद् विभक्त्यन्तस्यापि सुभोक्तत्वात, चतनादेशः कथन्न स्यात्, नैवम् । त्रिशब्दस्योत्तरपदे परे "प्रकृतिश्च स्वरान्तस्य" (२५।३) इति प्रकृतिवद्भावात् तिनादेशो नास्ति । तत्साहचर्यात् चत्वाशब्दस्याप्यतिदेशबलात् प्राप्तोऽपि चतनादेशो न भवतीति । सम्बन्धाधिकारनिवृत्त्यर्थमिति । ननु कथमुक्तं "नृ वा" (२।३।२८) इति विकल्पविधानात् । 'उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः'