SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ३९३ नामचतुष्टयाध्याये तृतीयो युष्पत्पादः [वि० प०] अन् । असाविति पर्युदासोऽयं नञ् । पर्युदासश्च सदृशग्राही, सादृश्यं चेह प्रत्ययकृतमेव वेदितव्यम् । अतः सिसदृशे प्रत्यये सति भवतीत्याह - असौ प्रत्यये इत्यादि । तेनात्र विभक्तिरधिकृतापि न संबध्यते इत्यणादिष्वपि भवति । असाविति विषयसप्तमीयम् । तेनानुत्पन्ने प्रत्यये बुद्धिस्थ एवान्तिर्भवति, प्रत्ययस्तु पश्चात् । तेन अन् – स्यन्तविहिताया नद्यास्तमतररूप-कल्प- चेल- ब्रुव- गोत्र- मत- हतेषु वा हस्वः , पुंवद्भावश्चेष्टसिद्धो भवति - अतितमा, अतीतमा, अवत्तमा इत्यादि। तथा विदुषीतमा, विदुषितमा, विद्वत्तमा । पचन्तीतमा, पचन्तितमा, पचत्तमा इत्यादि । प्रत्ययलोपलक्षणन्यायेन समासेऽपि अन्तिर्भवत्येव । यथा अन्तं गतो अर्चद्गतः । प्रसज्यार्थो वा नञ्, सिश्चेत् परो न भवति । विभक्त्यधिकारोऽप्यत्र न स्मर्यते । स चेद् अनञ् इति। न विद्यते नञ् यस्यासौ अनञ् अन् उच्यते । आतमिति, "तस्येदम्" (२।६।७) इत्यण् । अत्यमिति, अति साधुरिति "नावस्तार्ये" (२।६।९) इत्यादिना साधावर्थे यः ।।२४३। [क० च०] अन् । ननु असाविति सौ परे न भवति इत्युक्ते विभक्त्यधिकारोऽनुवर्तते इति अर्बत इत्यादौ सामान्यप्रत्यये कथं स्यादित्याह - पर्युदासोऽयं नजिति । अथ अवसादृश्याद् विभक्तिकृतसादृश्यं कथन्न भवति ? सत्यम् । मध्ये कार्यस्य पाठात् पर्युदासाश्रयणवैफल्याद् व्याप्तिन्यायाच्च प्रत्ययकृतमेव गृह्यते इत्याह - तेनेत्यादि । ननु कार्यि, निमित्तम्, कार्यम् इत्येष निर्देशक्रमः, तत्कथं कार्येण व्यवधानं कृत्वा निमित्तपाठः ? सत्यम् । अत्र व्यतिक्रमपाठो बोधयति – कार्यिदर्शनादेव कार्योत्पत्तिः पश्चानिमित्तानुसन्धानम् । ततश्च विषयसप्तम्येव घटत इत्याह - विषय इति । अथ विषयसप्तम्याश्रयणेन किं फलम्, निमित्तसप्तम्यापि आर्चत्यम् इत्यादि सिध्यति । तथाहि अन्शब्दान्नान्तत्वादीप्रत्यये परे अन्त्यादेशः । न ह्यत्र निमित्तस्य ईप्रत्ययस्याभावे ईकार - निवृत्त्यभावेन निवृत्तोऽवन्त्यादेशः पुनः प्रत्ययलोपलक्षणमाथित्य प्रवर्तते । ततश्च पश्चादन्तत्वादीप्रत्यये ‘अर्बतीतमा' इत्यादौ पुंवद्भावादिकं सिध्यतीति तस्मान्निमित्तसप्तम्यपि घटते, नैवम् । नैमित्तिकाश्रयनिमित्ताभावे इति निषेधान्न भविष्यतीति तर्हि कथं समासे निमित्तता घटते विभक्तेर्लोपादित्याह -- प्रत्ययलोपेत्यादि। अथवा विषयसप्तम्या 'अतीतमा' इत्यादौ पुंवद्भावादिरेव
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy