________________
३९४
कातन्वयाकरणम्
प्रयोजनं कथमुक्तं समासेऽपि प्रयोजनस्य सत्त्वात. नैवम् । तत्र निमित्तसप्तम्यापि साध्यस्य सिद्धत्वात् । तत्र युक्तार्थत्वात लोपे कथ निमित्तता इत्याह-प्रत्ययेत्यादि । अस्मिन् व्याख्याने विषयराप्तम्येव ।
ननु "व्यानान्तस्य यत् सुभोः" (२।५।४) इत्यत्र सुभोर्यदुक्तं तदेव भवति नान्यद् इति नियमेन प्रत्ययलोपलक्षणस्यानवकाशात् कथम् अव॑न्त्यादेशः, किन्तु व्यञ्जनोक्तत्वान्नलोप एव प्राप्नोति इत्याह- प्रसज्यार्थो वेति कुलचन्द्रः, तन्न | सुभो: परयोरेकदेशकार्यमेव संभवति । अतो नियमोऽपि एकदेशकार्यमेव व्यावर्तयति, न समुदायकार्यमिति । कथमन्यथा युवाम् अतिक्रान्तेन इत्यादौ प्रत्ययलोपलक्षणन्यायाद् युवादय आदेशाः स्युः । तथा च श्रीपतिः - वृत्तौ युवावैनमघवदवत्स्वेव प्रत्ययवदिति । यद्येवम्, अत्यङ्घत्यादौ अन्तर्वर्तिनी द्वितीयामाश्रित्य अर्वदादेशः कथं न स्यात्, नैवम् । अवयवसमुदायाश्रितयोर्विभक्त्यो : परयो : कार्यद्वयप्रसक्ती समुदायाश्रितस्य सेनिषेधस्वरूपं यत् कार्यं मुख्यं तदेव भवति, न त्ववयवाश्रितम् अवदिशकार्यम्, गौणत्वादिति । तस्मादिदमेव युक्तम् । ____ननु मुख्यार्थप्रसज्यसम्भवे लक्षणया पर्युदास इति कथमुच्यते कारणाभावादित्याह - प्रसन्यार्थो वेति । ननु अन्तम् अतिक्रान्तं कुलम् इत्यत्र किं रूपं स्यात् । अत्र अत्यर्व कुलम् इति हेमकरस्याशयः । अन्शब्दानपुंसकलक्षणसिलोपे प्रत्ययलोपलक्षणन्यायेन प्राप्त असावित्यनेनावदादेशनिषेधप्राप्तौ न च तदुक्तमित्यनेनावदादेशनिषेधस्य प्रतिषेधाद् अवदादेशः प्राप्नोति "विरामव्यानादावुक्तम्" (२।३ । ६४) इत्यतिदेशबलाद् व्यञ्जनोक्तनकारलोपः प्राप्नोति तत्रातिदेशस्य परत्वाद् व्यञ्जनोक्तनलोप एव प्राप्नोति । अथ नकारलोपेऽपि अर्वदादेशः कथं न स्यात्, नैवम् । सूत्रे अर्केति निर्देश प्राप्ते यद् अर्वन्निति नकारान्तं निर्दिशति तत् सनकारस्यैव विधिर्न त्वनकारस्येति । अन्ये तु 'अत्यवत् कुलम्' इति वदन्ति, नकारलोपेऽप्येकदेशविकृतस्यानन्यवद्भावादिति न्यायादित्याह । तन्नातिपे लम् | नकारनिर्देशेनैष एकदेशविकृतस्यानन्यवदित्यस्य बाधितत्वात् सकृद्गतन्यायेनेति दिक् ।।२४३,
[समीक्षा]
'अर्वन् + औ, अर्वन् + जस्, अर्वन् + सुप्, अर्वन् + अण्, अर्वन् - य, अर्वन् + ई' इस अवस्था में कातन्त्रकार अर्वन् शब्द को 'अर्वन्त्' आदेश करके 'अर्वन्तौ, अर्वन्तः, अर्वत्सु, आर्वतम्, अर्वत्यम्, अर्वती' शब्दरूप सिद्ध करते हैं । पाणिनि ने 'अर्वन्'