SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ३९२ कातन्त्रव्याकरणम् आकार - परवर्ती आकार का लोप, प्रकृत सूत्र द्वारा जस् को औ तथा "ओकारे औ औकारे च" (१।२।७) से आ को औ तथा परवर्ती औ का लोप । २. अष्टौ । अष्टन् + शस् । पूर्ववत् तथा शस् के स्थान में प्रकृत सूत्र से औकारादेश ।।२४२। २४३. अन्निर्वन्तिरसावनञ् [२।३।२२] [सूत्रार्थ] सि-भिन्न प्रत्ययों के परे रहते नभिन्न ‘अर्वन्' शब्द के स्थान में 'अर्वन्ति' आदेश होता है ।।२४३। [दु० वृ०] 'अन्' शब्दोऽर्वन्तिर्भवति असौ प्रत्यये परे, स चेदनञ् । अर्व्वन्तौ, अन्तः , अर्वत्सु | आर्वतम्, अर्वत्यम्, अर्वती । असाविति किम् ? अर्वा । अनजिति किम् ? अनर्वाणौ ।।२४३| [दु० टी०] अन् । इकार उच्चारणार्थः । असाविति पर्युदासोऽयं नञ् । तबलाच्च विशेषातिदिष्टतया विभक्तिर्न वर्तते तेन सेरन्यस्मिन् प्रत्यये भवति । विषयसप्तमीयम् अनुत्पन्ने बुद्धिस्थ एव प्रत्यये विधिरयम् । तेन अन्स्यन्तविहिताया नद्यास्तरतमकल्परूपचेलब्रुवगोत्रमतहतेषु वा ह्रस्वः पुंवद्भावश्चेष्टसिद्धौ भवति - अर्वतीतमा, अतितमा,अर्वत्तमेति ।समासेऽपि प्रत्ययलोपलक्षणं भवत्येव - अवन्तं गतोऽद्गतः, अव॑तो वनम् अद्वनम् । अथवा प्रसज्यार्थो नञ् शिश्चेत् परो न भवति, विभक्त्यधिकारोऽपि न स्मर्यते । तेन प्रतिषेधार्थस्य मुख्यत्वान्निरपेक्ष एवार्वन्तिर्भवति । न ,विद्यते नञ् यस्य स एवार्वन् अनञ् इत्युच्यते । केचित् पञ्चमी व्याचक्षते - स चेद् अर्वन् नत्र : परो न भवति प्रसज्यार्थे नञ् । 'नार्वन्तौ' इति सिद्धे पदे पश्चान्ना संवन्ध इति न दुष्यति । अन्तान्त इति कृते तकारागम: स्याच्चेत, तर्हि णत्वमपि प्रसज्येत । ननु 'असिद्धं बहिरङ्गमन्तरङ्गे' (का० परि० ३३) इति । किञ्च अनुस्वारी व्यक्तौ ? सत्यम् । प्रतिपत्तिश्च गरीयसीति 'आर्चतम्' इति । "तस्येदम्" (२।६।७) इत्यण । 'अत्यम्' इति "तत्र साधौ यः" (२।६।९) ||२४३।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy