________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
३९१ न चात्र पञ्चम्या विपरिणामे गौरवमिति वाच्यम् । समीपषष्ठ्याप्यर्थस्य घटनात् । अतस्तस्मादग्रहणबलादिति यदुक्तं तदेव भद्रम् | ननु यथा 'अष्टौ' इत्यत्र प्राप्तमपि जस्शसोर्लोपं बाधित्वा और्भवति, तथा 'अष्टौ पुत्रा यस्या इत्यष्टपुत्रा नारी' इत्यत्र "तत्स्था लोप्याः" (२।५।२) इत्यनेन प्राप्तं लोपं कथन्न बाधते । अत एवास्मिन् विषये पक्षे पाणिनिनापि 'मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते न परान्' (व्या० प० पा० १०) इत्यङ्गीक्रियते इति, भवन्मते का गतिः स्यात् ? सत्यम् । 'येन नाप्राप्तिन्यायेन' (व्या० परि० ४२) "कतेश्च" (२।१।४६) इत्यनेन प्राप्तो लुग् बाध्यते । न तु युक्तार्थलक्षणो लोपस्तद्भिन्नविषये 'अष्टौ, अष्टौ' इत्यत्र चरितार्थत्वात् ।
यद्येवम् “कतेश्च" (२।१।४६) इत्यनेनैव बाधकः कथं कल्प्यते, प्रियाष्टावित्यत्र गौणे चरितार्थत्वात् ‘अष्टौ' इत्यत्र मुख्ये लुविधानं न स्यात् ? सत्यम्, किन्तु परत्वादेवात्रौकारः । न तु लुक्परत्वं न 'पञ्च, सप्त' इत्यत्र लुकोऽवकाशत्वात् ‘प्रियाष्टौ' इत्यत्र गौणे औत्वस्यावकाशादिति । न चौकारे कृते 'यस्य स्थाने य आदेशाः' (का० परि० पा०९१) इति न्यायात् "कतेश्च"(२।१।४६) इत्यनेन लोपः स्यादिति वाच्यम् 'सकृद् गत०' (का० परि० १६) इति न्यायात् । अत एव युक्तार्थेऽपि परत्वात् "तत्स्था लोप्याः" (२।५।२) इत्यस्यैव विषयः इति सिद्धान्तः । कुलचन्द्रस्यापि मतमेतत् । ननु परत्वं युक्तार्थे कथं संगच्छते, युगपत् प्राप्त्यभावात् । तथाहि, आदावेवौकारं कृत्वा पदं निष्पाद्य पश्चात् पदान्तरसंबन्धे समासे "तत्स्था लोप्याः"(२।५।२) इति प्रवर्तते । उच्यते, 'स्यादयः पुनरुत्थाप्य लुप्यन्ते' इति न्यायस्याङ्गीकारात् सकलविभक्तिकार्यनिवृत्तौ पुनरुत्थापितायां विभक्तौ सत्यां लुगौकारयोर्युगपत्प्राप्तौ परत्वाल्लुगिति संक्षेपः। एतेन विषयसप्तमी लभ्यते इति टीकापङ्क्तिरपि व्याख्याता ।।२४३।
[समीक्षा]
‘अष्टन् + जस्, अष्टन् + शस्' इस अवस्था में पाणिनि तथा कातन्त्रकार दोनों ही शाब्दिकाचार्य 'न्' को आत्व करके 'जस्-शस्' के स्थान में औकारादेश द्वारा ‘अष्टौ, अष्टौ, शब्दरूप सिद्ध करते हैं | पाणिनि के दो सूत्र इस प्रकार हैं - "अष्टन आ विभक्तौ, अष्टाभ्य औश्" (अ० ७।२।८४; १।८४)।
[रूपसिद्धि]
१. अष्टौ । अष्टन् + जस् । “अष्टनः सर्वासु" (२।३।२०) से न् को आत्व, "समानः सवर्णे दीर्धीभवति परश्च लोपम्' (१।२।१) से टकारोत्तरवर्ती अकार को