________________
कातन्त्रव्याकरणम्
[वि० प०]
औ० ।पूर्वसूत्रात सर्वग्रहणमनुवर्तते तच्च जस्शसोर्विशेषणमिति दर्शयन्नाह - सर्वयोरिति । ननु 'परस्यादेः' (भोजप० सू० १६) इति परिभाषा नाङ्गीकृता इत्युक्तम् । अतश्चैकवर्णत्वादन्तस्य सकारस्य भविष्यति, अकारस्य दीर्घात् परलोपे कृते “ओकारे औ औकारे च" (१।२।७) इति कृते पुनरष्टनः आकारस्यौत्वे सति सिद्धम्, किं सर्वग्रहणानुवर्तनेन ? सत्यमेतत् । किन्तु प्रक्रियागौरवनिरासार्थमेव सर्वग्रहणानुवर्तनम् । अथ किमर्थं तस्माद्ग्रहणम् ? अष्टनो विशेषणार्थम् । किम्भूताद् अष्टनस्तस्मात् कृताकारादित्यर्थः । यः पुनरकृताकारस्तस्माद् और्न भवतीति । ननु तत्र नित्यमाकारः क्रियते, तत् कथम् अकृताकारस्य सम्भवः ? सत्यम् । अस्मादेव तस्माद्ग्रहणबलादनित्यत्वमात्वस्य वेदितव्यमित्याह - तस्माद्ग्रहणमित्यादि । तेन 'अष्ट तिष्ठन्ति, अष्ट पश्य' इत्यपि भवति ।। २४२।
[क० च०]
औ० । दीर्घात् परलोपमित्यादि पत्री। तथाष्टन आकारस्यौत्वे कर्तव्ये परलोपस्यासिद्धवद्भाव: कथन्न स्यात्, अन्यस्मिन् पक्षे जस्शसोरकारस्य स्थाने यश्चौ कारस्यासिद्ध वभावः स्थानिवद्भावः कथन्न स्यात् । नैवम् । स्वरानन्तर्येऽसिद्धवद्भावस्यानित्यत्वात्, अत एव स्थानिवद्भावस्याप्यनित्यता । 'यदि स्थानिवद्भावो न भविष्यति' इत्युच्यते तदाऽसिद्धवद्भावस्यानित्यत्वं विफलं स्यात् । अथ जस्शसोरकारस्य कथमौत्वम् अन्तरङ्गत्वात् परलोप एव प्राप्नोतीत्याह - दीर्घात् परलोप इत्यादि व्यस्तम् । तस्माद्ग्रहणबलादित्यादि ।
ननु कथं सामर्थ्यमुच्यते, तस्माद्ग्रहणमन्तरेण जस्शसोः परयोरष्टनोऽन्तस्यौत्वं भवतीत्यर्थः कथन्न स्यात् । तस्माद् इत्यनेनाष्टनः पञ्चम्यन्ततयाऽनुवर्तनेन जस्शसोरिति न षष्ठी लभ्यते, न च जस्शसोः परयोरष्टनोऽन्तस्यौत्वे भूतपूर्वनान्तत्वमाश्रित्य कतेश्चेत्यनेन जस्शसोलुंका ‘अष्टौ' इति सिध्यतीति वाच्यम् । तत्र हि मुख्याष्टान्तसंख्यासंबन्धिजस्शसोर्लोपविधानात् 'प्रियाष्टौ येषाम्' इत्यत्रानेन गौणे जस्शसोर्लोपो न स्यात् ? रात्यम् । तस्माद्ग्रहणं विना जस्शसोरिति षष्ठी लभ्यते । अन्यथा समाहारं कृत्वा जस्शसिति सप्तम्येकवचनमेव निर्दिशेत्, नैवम् । यद्यत्र षष्ठी स्यात् तदा जस्शस इति षष्ट्येकवचनस्यापि सुगमत्वात् तस्मादयमेव सिद्धान्तः। कार्यित्वकल्पने कृतानुमितयोरिति न्यायात् सूत्रश्रुतयोरेव जस्शसो: कार्यित्वं प्रयुज्यते, न त्वधिकारानुमितस्याष्टनः ।