________________
३८९
नामचतुष्टयाध्याये तृतीयो युष्पत्पादः [दु० वृ०]
तस्मादष्टनः कृताकारात् परयोः सर्वयोर्जस्शसोः स्थाने और्भवति । अष्टौ, अष्टौ । तस्माद्ग्रहणमात्वस्यानित्यार्थम् , तेन ‘अष्टभिः , अष्टसु' वा स्यात् ।। २४२ ।
[दु० टी०]
औ० । सर्वयोरित्यादि । 'अष्टनः सर्वासु' इत्यतः सर्वग्रहणम् अधिकृतम्, जस्शसोर्विशेषणमित्यर्थः । ननु 'परस्यादेः' (भोजप० सू० १६) इतीह परिभाषा नोपकारिणीत्युक्तं "ज्यन्तरुपसर्गेभ्योऽप ई:" (अ० ६।३।९७) इत्यादि नादृतम् । द्वीपादयो हि संज्ञाशब्दा लोकोपचारात् सिद्धा इति । ततश्च वर्णान्तस्य विधिर्भविष्यति'। औकारे अकारस्यौत्वं पुनरष्टनः अकारस्यौत्वं दीर्घात् परलोपो वा ? सत्यम् । तर्हि प्रक्रियागौरवनिरासार्थमिति।
तस्मादित्यादि । किं विशिष्टादष्टनः, तस्मादन्यस्मान्न भवतीत्यर्थः । कः पुनरन्यो योऽसावकृताकारः । किं तत्र विभाषास्ति ? नैवम्, अस्मादेव तस्माद्ग्रहणविशेषणबलाल्लभ्यत इति । अथवा तच्छब्देनाकारः परामृश्यते । 'विशेषणेन च तदन्तविधिः' इत्यष्टन आकारान्तादित्यर्थः । तेन ‘अष्ट तिष्ठन्ति, अष्ट पश्य' इत्यत्र न भवति । विषये यस्यारभ्यते औत्वं तस्य लुकोऽपवादः । युक्तार्थलक्षणो लोपो भवत्येव - ‘अष्टपुत्रः, अष्टभार्यः' इति । तदन्तविधिरत्र प्रकरणेऽस्तीति ‘परमाष्टौ' । प्रिया अष्टौ येषाम्, अष्टावतिक्रान्तान् ‘प्रियाष्टौ, अत्यष्टौ' इति भवितव्यमेव ।
इन्यिन्नाय्यन्तानां न च क्विव् दृश्यते । अन्यः पुनराह – अष्टनः सम्बन्धिनोविहितयोर्जस्शसोस्तस्मात् कृताकाराद् और्भवतीति 'प्रियाष्टानः, प्रियाष्ट्नः पश्यन्ति' इति भवितव्यम् । इह वा गौणमुख्य कार्यसम्प्रत्यय आश्रीयते, नैतद् युक्तम् । यत्रात्वं तत्रौत्वं स्यात्, नात्रात्वमस्तीति । अथ यदात्वं तदौत्वं स्यात् । न च प्रियाप्टास्तिष्ठन्ति, प्रियाष्टाः पश्यन्तीति प्रयोगो दृश्यते । अथ ज्ञापकज्ञापिता विधयो ह्यनित्या लक्ष्यमनुसरन्ति, तत्र व्यवस्थितविभाषा स्मर्यते । तेन जसशसोरात्वमपि न भवति अप्रधानस्य तर्हि किमौत्वविधानेऽप्रधानचिन्तयेति । न चैतद भाष्यकृताऽपि चोदितमिति ओत्वे औत्वे वा न किञ्चिल्लाघवम् । यस्त्वाह -- तस्मात् परौ यौ जस्शसौ तयोः परयोरष्टनः और्भवति, भूतपूर्वनान्तत्वाच्च जस्शसोलुंग भवति । एवं व्याख्यानेऽपि न किञ्चित फलमिति जस्शसो : सदिशे च कारणमुक्तमेव ।। २४२ ।