________________
३८६
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. राः । - सि । प्रकृत सूत्र द्वारा ऐकार को आकार तथा “रेफसोर्विसर्जनीयः" (२।३।६३) से स् को विसदिश ।
२. राभ्याम् । रै + भ्याम् । प्रकृत सूत्र द्वारा ऐकार को आकारादेश ।
३. अतिराभ्याम् । अतिरै + भ्याम् । रायमतिक्रान्ताभ्याम् “स्वरो हस्वो नपुंसके" (२।४।५२) से नपुंसकलिङ्ग में ऐ को ह्रस्व इ तथा प्रकृत सूत्र से इ को आ आदेश ||२४०।
२४१. अष्टनः सर्वासु [२।३।२०] [सूत्रार्थ]
सभी विभक्तियों के परे रहते ‘अष्टन्' शब्द के अन्तिम वर्ण को आकारादेश होता है ||२४१।
[दु० वृ०]
अष्टनोऽन्तस्यात्वं भवति सर्वासु विभक्तिषु । अष्टाभिः, अष्टाभ्यः, अष्टासु, प्रियाष्टाः, प्रियाष्टौ ।। २४१।
[दु० टी०]
अष्टनः । अष्टन इति । अनुकार्यानुकरणयोरिह भेदात् संख्यार्थो नास्तीत्येकवचनम् । अनोऽकारलोपो न क्रियते मन्दधियां सुखार्थम् । ननु 'स्थानेऽन्तरतमः' (का० परि० १६) इति न्यायाद् अनुनासिक आकारो भवितुमर्हतीति व्यक्तिरपि तिरोहिता । साक्षाद् आत्वमिति जातिनिर्देशात्, नैवम् । प्रायश्छन्दस्येव सानुनासिकस्य वर्णस्य दृष्टत्वाद् भवाँल्लुनातीति दृश्यते । भाषायां यो यत्र दृश्यते स एव तत्र प्रयुज्यते । यथा 'देवदत्तोऽलं क्रियताम्' इति विषयविभागनिर्देशेऽपि योग्यतया व्यवस्था स्यात्, न विपर्ययो न सङ्करः, संदेहो वा सानुनासिकम् इह विदध्यात् । अथवा निरनुनासिकतया श्रुतोऽयमाकारोऽस्यैव स्वरूपम् अभिधत्ते । भावप्रत्ययश्च वचनादिति । सर्वग्रहणं व्यञ्जनाधिकारनिवृत्त्यर्थम् । प्रिया अष्टौ यस्य ययोर्वेति विग्रहः । एवं प्रियाष्ट्ना, प्रियाष्टा पुरुषेणेत्यादि यथालक्षणं योज्यम् ।
स्त्रीलिङ्गनिर्देशाद् विभक्तिर्विशिष्यते अविभक्तिषु न भवति - अष्टता, अष्टत्वम्। 'अष्टपुत्रा नारी' इति प्रत्ययलोपलक्षणं "व्यजनान्तस्य यत्सुभोः"