________________
३८७
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः (२।५।४) इत्यपि न भवति, व्यावृत्तिबलादित्यर्थः । अष्टनः कपाले हविषि वाच्ये क्वचिद् ह्रस्वस्य दीर्घता स्यादेव । अष्टसु कपालेषु संस्कृतं हविः अष्टाकपालम् इति तद्धिताभिधेये समासः , "संस्कृतं भक्ष्यम्" इत्यण् नास्ति,अभिहितत्वात् । तथा गवि युक्ते वाक्ये अष्टानां गवां समाहारः ‘अष्टगवम्' । गोरतद्धिताभिधेये राजादित्वादत् तद्योगाद् अष्टागवम् । अर्शआदित्वादस्त्यर्थेऽत् श्रुतत्वात् तैरेव गोभिर्युक्तमित्यर्थः । तथा संज्ञायां च – अष्टौ वक्राण्यस्य अष्टावक्रो नाम ऋषिः । यथाकथंचिद् व्युत्पत्तिः । तथा शतात् प्राक् संख्यायामबहुव्रीहौ – अष्टाभिरधिका दश, अष्टौ च दश चेति वा अष्टादश। अष्टाभिरधिका विंशतिः, अष्टौ च विंशतिश्चेति वा अष्टाविंशतिः । समाहारपक्षेऽपि स्वभावादनपुंसकता । शतात् प्रागिति किम् ? अष्टशतम् । अबहुव्रीहाविति किम ? अष्टौ दश वा परिमाणमेषाम् अष्टादशाः, राजादित्वादत् । द्वेरात्वं शतात् प्रागनशीतिसंख्यायामबहुव्रीहाविति वक्तव्यम् । द्वादश, द्वाविंशतिः, पूर्ववत् समासः । अनशीति संख्यायामिति किम् ? व्यशीतिः । अबहुव्रीहाविति किम् ? द्वौ वा त्रयो वा परिमाणमेषां (दशानाम्) द्विदशाः, त्रिदशाः । राजादित्वादत् । तन्न वक्तव्यम् । यस्तु लोकोपचारात् सिद्धस्तत्र किं यत्नेनेति ।
तथा 'त्रेस्त्रयस्' । त्रयोविंशतिः ! पूर्ववदिहापि व्यावृत्तिरिति । एषां चत्वारिंशदादौ वा दृश्यते - अष्टचत्वारिंशत्, अष्टाचत्वारिंशत् । द्विचत्वारिंशत्, द्वाचत्वारिंशत् । त्रिचत्वारिंशत्, त्रयश्चत्वारिंशत् । प्राप्ते विभाषेयं प्रत्यायते ।। २४१!
[वि० प०]
अष्टनः। इहानुकार्यानुकरणयोर्भेदस्याविवक्षितत्वात् संख्यार्थत्वान्नास्तीत्येकवचनम् । अनोऽकारोऽपि न लुप्यते, सूत्रत्वात् । प्रियाष्ट, प्रियाष्टाविति । प्रिया अष्टौ यस्य ययोर्वेति विग्रहः ।। २४१।
[क० च०]
अष्टनः। अथ किमर्थं सर्वास्विति चेद्, अनन्तरत्वाद् व्यञ्जनानुवृत्तिः स्यात्, नैवम् । “औ तस्माजस्शसोः” (२।३।२१) इत्यत्र तस्माद्-ग्रहणेन जस्शसोरपि कृताकारस्याष्टनः परामर्शित्वात् सङ्ख्यायाः ष्णान्तायाः इत्यत्रान्तग्रहणाच्च । तथाहि 'येन विधिस्तदन्तस्य' (का० परि०३) इति सिद्धे यदन्तग्रहणं तद् भूतपूर्वनान्तार्थमित्युक्तम् । तेनामि कृतस्याकारस्य भूतपूर्वनान्तत्वान्नागमः सिध्यतीति किं सर्वग्रहणेन ? सत्यम् । विभक्तिरित्यनुवर्तने लब्धे यत् सर्वग्रहणं तद् व्याप्त्यर्थम् । तेन गौणेऽपि स्यात्