________________
३८५
नामचतुष्टयाध्याये तृतीयो युष्पत्पादः आदिलोपं कुर्वते । अतिराभ्याम् इति नपुंसके ह्रस्वेऽपि 'एकदेशविकृतमनन्यवद् भवति' (का० परि० १) इति न्यायात् ।। २४०।
[वि० प०]
रैः । ननु रैशब्द आत्वं प्राप्नोतीत्युक्ते समुदायेनैवात्वं प्राप्तुमर्हति, न त्वेकदेशेन । न ह्येकदेशो रैशब्दः किन्तर्हि समुदाय इति ? सत्यम् । यथा देवदत्तो लब्धकर्णत्वं प्राप्नोतीत्युक्ते एकदेशेनैव प्राप्नोति न समुदायेन, तथात्रापीत्यदोषः । अतिराभ्यामिति । रायमतिक्रान्ताभ्यां कुलाभ्यामिति विग्रहे नपुंसकलक्षणह्रस्वत्वेऽपि 'एकदेशविकृतस्यानन्यवद्भावाद् भवति' (का० परि० १) इति । अत्राप्यादिग्रहणं वर्तते इत्याह-साक्षादित्यादि । रायमतिक्रान्तं कुलमिति विग्रहे नपुंसकलक्षण : सिलोपः , इहापि "विरामव्यानादावुक्तम्" (२।३।६४) इत्यादिना प्राप्तमात्वं बाध्यते ।। २४०।
[क० च०]
रैः । समुदायेनैवात्वं प्राप्तुमर्हतीति । ननु रैशब्द : समुदायाद् भिन्नोऽभिन्नो वेति । भिन्नश्चेत् तर्हि एकदेशो रैशब्द: किन्तु समुदा स्यैव विरुद्धता अतो भिन्न वक्तुं न पार्यते । स एव हि समुदाय इति आत्वं समुदायेनैव प्राप्नोति, न ह्येकः कर्ता करणं च संभवतीति ? सत्यम् । समुदायशब्दो धर्मिपरो धर्मपरश्च स्यात् तस्मात् समुदायो धर्मी, समुदायेन साकल्येन सर्वात्मना आत्वं प्राप्तुमर्हतीति, यथेत्यादि । ननु कथमत्र दृष्टान्तो घटते । लम्बौ कर्णौ यस्येति बहुव्रीहिणा समुदायवाच्यत्वेन लम्बसमुदाय एव धर्मः ।अतः समुदायेन धर्मेणैव लम्बकर्णत्वं प्राप्तुमर्हतीति ? सत्यम् । कृत्तद्धितसमासेभ्यस्त्वतल्भ्यामिति सम्बन्धाभिधानमिति न्यायात् । लम्बकर्णशब्देन बहुव्रीहिणापि लम्बकर्णत्वस्य संबन्धः पुरुषः प्रतीयते त्वप्रत्ययात् । अतस्तत्सम्बन्धेनैकदेशेनैव प्राप्नोतीत्यदोषः । यद् वा लम्बकर्णत्वशब्देन लम्बकर्णपुरुषप्रवृत्तिनिमित्तत्वम् उच्यते, तच्च लम्बकर्णत्वमेव । यथा दण्डिनो दण्ड एव प्रवृत्तिनिमित्तत्वम् ।।२४०।
[समीक्षा]
‘रै + सि, रै + भ्याम्, अतिरि + भ्याम्' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ने ही आकारादेश का विधान करके 'रैः, राभ्याम्, अतिराभ्याम्' शब्दरूप सिद्ध किए हैं | पाणिनि का सूत्र है – “रायो हलि" (अ० ७।२।८५)। अत: उभयत्र प्रक्रियासाम्य है।