________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
३८३ कथन्न स्यात् ? नैवम् । इत्यादिग्रहणं साक्षाद् व्यञ्जनप्रतिपत्त्यर्थमित्युक्तमेव । तस्मात् 'त्वत्पुत्रः' इत्यादौ व्यञ्जने आत्वं स्यात्, कथं सुखार्थमिति ? सत्यम् । आम्नायविरुद्धस्य ज्ञापयितुमयोग्यत्वादिति हेमकरः। ननु युष्मभ्यम् "हशषछान्ते." (२।३।४६) इत्यादिना डकारः कथन्न स्यात्, सत्यम् । “न सयोगान्त०" (२।३।५८) इत्यादिना मकारस्यालुप्तवद्भावात् ........ 'न सन्ति आदौ' इत्यनेन श्रीपतिना लुप्तवद्भावनिषेधस्य उक्तत्वाड्डत्वापत्तिरेव । अत्र केचिद् डत्वमेव प्रमाणम् इत्याहुः । सुवेश्मयतेः क्विपि कृते सुवेट, सुवेड्भ्यामिति । तन्न । विरामे व्यञ्जनादौ च लुप्तस्य नकारस्यालुप्तवद्भावस्तत्साहचर्याद् यत्र दिरामे व्यञ्जनादौ च संयोगान्तलोपस्तत्रैवालुप्तवद्भावः । अत्र पुनर्विभक्तिमाश्रित्य "एषां विभक्तौ" (२।३।६) इत्यनेन कृतस्य संयोगान्तलोपस्यालुप्तवद्भावस्य कुतः प्रसङ्ग इति, येन "न सन् डादौ" (कात० परि०-नाम० ५५) इत्यनेनालुप्तवद्भावप्रसङ्गः स्यात् । अतो युष्भ्याम्, युवभ्याम् इत्यत्र न श्रीपतिसूत्रस्य विषयः, यत्तु 'सुवेट, सुवेड्भ्याम्' इत्यादौ डत्वमुक्तम्, तत्तु तद्विधायकविरामव्यञ्जनादिप्रकरणीयसंयोगान्तलोपत्वादेव । तस्माल्लोपे कृते डत्वे प्राप्ते मकारलोपस्यासिद्धवद्भावान्न डत्वप्राप्तिरिति सिद्धान्तो युक्तः ।
अथ 'अस्भ्याम्' इत्यत्र “संयोगादे(टः" (२।३ । ५५) इति सलोपः कथन्न स्यात्, ‘स्कोऽह्तद्डश्च्युतामादेः' इत्यत्र सकारस्य विहितत्वात् ? सत्यम् , अन्तस्थानुनासिकपरस्य धुटो लोपो नाभिधीयते । तथा च भाष्यम् - अन्तस्थानुनासिकपरस्याधुटः संयोगादेर्न लोप इति । अथ ‘अस्भ्याम्' इत्यादौ "धुटां तृतीयः" (२।३।६०) इत्यनेन सकारस्य दकारः कथन्न स्यादिति चेत्, कस्कादित्वात् सस्य सः कर्तव्यस्तृतीयबाधनार्थ इति ।
वस्तुतस्तु मकारलोपस्यासिद्धवद्भावादेव न तृतीय इति । 'त्वाभ्याम्' इत्यादौ "अकारो दीर्घ घोषवति" (२।१।१४) इति दीर्घः स्यादेव । 'त्वेभ्यः, त्वेषु' इत्यत्र "धुटि बहुत्वे" (२।१।१९) इति स्यात्, आत्ववर्जनात् । तदुक्तम् -
इनन्तयोस्तु तद् वाच्यं यदुक्तं युष्मदस्मदोः।
वर्जयित्वैत्वमात्वं च मान्तलोपो विभाषया ॥ एत्ववर्जनविषयस्त्वेन येन इत्यादाविति ।। २३९ ।