SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३८२ कातन्त्रव्याकरणम् [वि० प० ] आत्वम् अस्थानिनीति सुखार्थमिदमधिकृतम् अव्यभिचारात् । नहि व्यञ्जनादिः स्यादिः स्थानी संभवतीति । अथ व्यञ्जनग्रहणं किमर्थम्, सुभोरिति क्रियतां न हि स्यादीनां सकारभकाराभ्याम् अन्यद् व्यञ्जनमस्तीति, सत्यम् । सुखार्थमेव व्यञ्जनग्रहणम् । तर्हि आदिग्रहणं किमर्थम् सत्यम् । इदमपि व्यञ्जनमेवादिर्यस्येति बहुव्रीहावादिमध्यान्तव्यवहारार्थम् । स पुनः स्वत एव संभवतीति न लुप्तस्येत्याह - आदिग्रहणमित्यादि । तेन युष्माकं युवयोर्वा पुत्रः इति विग्रहे " व्यञ्जनान्तस्य यत्सुभोः” (२।५।४) इत्यनेन प्राप्तमात्वं बाध्यते । तथा " विरामव्यञ्जनादावुक्तम्” (२ | ३ |६४) इत्यादिना प्राप्तस्य बाधा इत्याह- अधित्वदिति । ' त्वय्यधि, मय्यधि' इति । कारकार्थेऽव्ययीभावः । लुगिति । परत्वात् " अन्यस्माल्लुक्” (२।४।३) इत्यनेन परत्वात् लुगित्यर्थः । कथन्तर्हि प्राप्तिः आत्वस्य तस्य स्यमोर्लोपे विधीयमानत्वाद् इति चेत्, नैवम् । लुग्लोपयोः पर्यायत्वात् प्राप्नोति आत्वमनेन प्रतिषिध्यते ।।२३९। [ क० च० ] आत्वम्० । व्यञ्जनग्रहणं सुखार्थमिति । दुःखमेतत् | केनचिद् 'भ्यस् भ्यम्' इति भकारादिरयमादेशः क्रियते । अस्थानिनीत्यत्रापि । ननु वृत्त्या अस्मिन्नपि आत्वं स्यात् । अत्र च वक्तव्यम् । अस्मन्मते आकारादिरयमादेशः । अन्यथा धुट्येत्वं स्यात् । इदमेव दुःखम् । अतो व्यञ्जनग्रहणं सुखार्थमिति । ननु सुखार्थमिति कथमुच्यते, यावता व्यञ्जनग्रहणात् सामान्यव्यञ्जने कथन्न स्यात्. यथा “दिव उद् व्यञ्जने " (२।२।२५ ) इत्यत्र ? सत्यम् । आदिग्रहणं साक्षात् प्रतिपत्त्यर्थमवश्यं कर्तव्यम्, तदा तेन सह बहुव्रीहित्वाद् अन्यपदार्थे गृह्यमाणे सति प्रकृतत्वाद् " एषां विभक्तौ " (२।३।६) इत्यतोऽन्यपदार्थत्वेन विभक्तिरेव गृह्यते इति हेमकरः । ननु तथापि व्यञ्जनग्रहणं कथं सुखार्थप्रयोजनस्यैव वक्तुं शक्यत्वात् । तथाहि व्यञ्जनग्रहणं व्यञ्जनसामान्यत्वेन विभक्तिपदयोर्व्यञ्जनपरिग्रहार्थं भवति । आदिग्रहणं च प्रत्ययोत्तरव्यञ्जनानां साक्षात् प्रतिपत्त्यर्थम् । तेन युष्मदागमनम्' इत्यादौ " व्यञ्जनान्तस्य '' (२।५।४) इत्यादिना अतिदेशबलात् प्राप्तमप्यात्वं व्यञ्जनव्यावृत्तिबलान्न भविष्यति । अथ व्यञ्जने भवति, स्वरे न भवतीत्यर्थे स्वरे व्यावृत्त्या व्यञ्जनग्रहणस्य सार्थकत्वात् ‘अधित्वत्' इत्यादौ " विरामव्यञ्जने० " ( २ | ३ | ४४ ) इत्यादिना निरपेक्षे
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy