SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये तृतीयो युष्मत्पादः ३८१ ५-६ . त्वयि । युष्मद् + ङि । मयि । अस्मद् + ङि । ' त्वद्- मद्' आदेश, दलोप, एकार तथा उसको अयादेश | ७-८. अतित्वयि। अतियुष्मद् + ङि । त्वामतिक्रान्ते । अतिमयि । अत्यस्मद् + ङि मामतिक्रान्ते । 'त्वद्- मद्' आदेश, दलोप, एकार तथा उसके स्थान में अयादेश । [ विशेष ] १. ‘स्थानम्' – पदार्थ 'अर्थ' स्वीकार किया गया है - तिष्ठत्यस्मिन् शब्द इति स्थानम् । २. ‘स्थान' शब्द का ३ अर्थों में प्रयोग - निवृत्ति, अपकर्ष एवं प्रसङ्ग । यहाँ ‘स्थितिः स्थानम्’ स्वीकार्य' है || २३८ | २३९. आत्वं व्यञ्जनादौ [ २।३।१८ ] [ सूत्रार्थ ] ऐसी व्यञ्जनादि स्यादि विभक्ति, जिसका कोई आदेश न हुआ हो, उसके परे रहते 'युष्मद्- अस्मद्' शब्दों के अन्तिम वर्ण को आकारादेश होता है ।। २३९ । [दु० वृ० ] एषामन्तस्यात्वं भवति अस्थानिनि व्यञ्जनादौ स्यादौ । युवाभ्याम्, आवाभ्याम् । अतियुवाभिः, अत्यावाभिः । अतित्वासु, अतिमासु । आदिग्रहणं साक्षात् प्रतिपत्त्यर्थम् । तेन 'युष्मत्पुत्रः, अधित्वत्, अधिमत् । लुक् ।। २३९ । [दु० टी० ] आत्वम्०। अस्थानिनीत्यत्राधिकारो मन्दधियां सुखप्रतिपत्त्यर्थः । नहि व्यञ्जनादिः स्थानी संभवति । ननु सभोरिति कृते सकारभकारयोरिति गम्यते, न च ताभ्यामन्तरेणान्यद् व्यञ्जनमस्ति ? सत्यम् । व्यञ्जनग्रहणं सुखप्रतिपत्त्यर्थम् । तर्ह्यादिग्रहणं किमर्थम्, विभक्तिविषये व्यञ्जने सतीति सिद्धम् | 'वर्णग्रहणे तदादौ कार्यसम्प्रत्ययः' (कलाप० २२२-७२ ) इत्येके, सत्यम् । आदिग्रहणे लब्धे यदादिग्रहणं तद्बहुव्रीह्यर्थम् । व्यञ्जनमेवादिर्यस्येति आदिमध्यान्तव्यवहारोऽपि स्वतो भवति । न तु लुप्तस्येत्याह - आदिग्रहणमित्यादि । युष्माकं युवयोर्वा पुत्रः इति विग्रहे 'व्यञ्जनान्तस्य यत् सुभोः” (२|५|४) इत्यात्वं बाधते, लुग्लोपयोः पर्यायत्वात् । यस्तु युष्मयतेरस्मयतेश्च विभक्त्योरन्तलोपे 'युष्माभ्याम्, युष्भ्याम्, अस्माभ्याम्, अस्भ्याम्’इत्यत्र व्यवस्थितवाधिकारमनाश्रयन्, आ तु अम् अकारस्थानम् प्राप्नोतीति प्रतिपद्यते तन्मतेनादिग्रहणं स्पष्टार्थम् || २३९। 66
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy