________________
३८०
कातन्त्रव्याकरणम्
इत्यर्थः । अपकर्षस्तु न घटते । स हि द्रव्यस्य देशाद् देशान्तरसंचारलक्षण : कथं शसादीनां घटते । स्थानमस्यास्तीति स्थानी, पश्चान्नसमासः । अस्थानिनीत्यस्य पर्यायेणार्थमाह - अप्रसङ्गिनि इति । पुन: स्पष्टार्थं तदेव विवृणोति । अनादेशीति | न विद्यते आदेशो यस्येति विग्रहः । ‘अतित्वयि, अतिमयि' इति । 'त्वामतिक्रान्ते, मामतिक्रान्ते' इति विग्रहे तत्रान्तग्रहणबलादन्तस्य लोपे सत्यकारस्यैत्वम् ।। २३८ ।
[क० च०]
एत्वम् । स्थानशब्द इत्यादि । अत्र निवृत्त्यादिरर्थ एव शक्तिरिति केचिदाहुः। अन्ये तु स्थानशब्दो (विषये) निवृत्तावेव वर्तते । निवर्तनादयस्तु तात्पर्यगम्याः । ते विषयशक्तिकरणेनैव सिद्धाः, प्रत्येकशक्तिकल्पने गौरवापत्तेः। आदिशब्दस्य प्रधानशक्तिकल्पने अवयवाद्यर्थवत् । यद्यपीत्यादि । ननु नित्यं पक्षमाश्रित्य कथं पूर्वपक्षः । अनित्यपक्षेऽपि समानत्वात् । न ह्यनित्यपक्षेऽपि युष्मानित्यादौ शसं निवर्त्य अनूच्चार्यते ? सत्यम् । नित्यत्वमिह प्रवाहनित्यत्वमुच्यते न प्रसिद्धं नित्यानित्यमादाय विचार्यते ।।२३८ ।
[समीक्षा]
'युष्मद् + टा, अस्मद् + टा, युष्मद् + ओस्, अस्मद् + ओस्, युष्मद् + ङि, अस्मद् + ङि, अतियुष्मद् + डि, अत्यस्मद् + डि' इस स्थिति में कातन्त्रकार अकार को एकार एवं एकार को अयादेश करके ‘त्वया, मया, युवयोः, आवयोः , त्वयि, मयि, अतित्वयि, अतिमयि' शब्दरूप सिद्ध करते हैं । पाणिनि ने उक्त रूपों के साधनार्थ दकार को यकारादेश किया है – “योऽचि" (अ० ७।२।८९) । इस प्रकार कार्यसंख्या की दृष्टि से पाणिनीय प्रक्रिया में लाघव सन्निहित है |
[रूपसिद्धि]
१. त्वया । युष्मद् + टा । दलोप, त्वद् आदेश, पुनः दलोप, प्रकृत सूत्र से अ को ए तथा "ए अय" (१।२।१२) से अयादेश ।।
२. मया। अस्मद् + टा । “एषां विभक्तावन्तलोपः" (२।३।६) से दलोप, प्रकृत सूत्र को ज्ञापक मानकर (मद्) आदेश, 'यावत् सम्भवस्तावद् विधिः' (का० परि० ५४) के नियमानुसार पुनः दलोप, प्रकृत सूत्र से अ को ए तथा ए को अयादेश।
३-४. युवयोः। युष्मद् + ओस् । आवयोः। अस्मद् + ओस् । दकारलोप, 'युव-आव' आदेश, प्रकृत सूत्र से अ को ए तथा ए के स्थान में अयादेश ।