________________
नामचतुष्टया याये तृतीयो युष्मत्पादः
३७९ स्थानिवदादेशो ह्यवर्णविधाविति यथा विकारे न्यायतया भासते तथा प्रसङ्गेऽपि । यथा 'उपाध्यायस्य स्थाने शिष्यः स्थापनीयः' इति शिष्योऽप्युपाध्याय इति गम्यते तत्कार्यकरणात् । तथा च लोके 'गुरुवद् गुरुपुत्रेऽप्युपचारः' इति । लिङ्गधातुविभक्तीनामादेशा हि तद्वद् भवन्ति । वर्णस्य स्थाने वर्णाश्रितविधावुभयथा पक्षे सत्यपि तथा ज्ञाने न दोषः । नहि राजामात्यो राजवदुपचर्यमाणो राजव्यक्तिं लभते । तेन ‘क इष्टः, क उप्तः' इत्यत्र संप्रसारणे कृते व्यक्त्याश्रिता घोषवत्संज्ञा कथं प्रवर्तते, येनोत्वमाशङ्क्यते । द्यौरित्यत्र च व्यक्त्याश्रितव्यञ्जनसंज्ञा, कथं व्यञ्जनात् सिलोपः, यत्वमपि कथन्न भवतीति । किं च 'घोषवन्तोऽन्ये" (१।१।१२) इति ज्ञापकाद् यदि वर्णोऽपि स्थानी भवति विसर्जनीयस्योत्वे कृते "उवणे ओ" (१।२।३) इति 'ओ' न स्यात् । तेषामित्यत्र च घुट्येत्वं यत्वं च न स्याद्, एवमन्येऽपि । “आत्वं व्यजनादौ" (२२३।१८) इति वचनात् स्वरादावयं विधिः।
ननु कथं स्यादाविति लभ्यते, विभक्त्यधिकारादिति चेत्, तदा तु स्थानिन्यामिति भवितव्यम् । नैवम् । तत्र सामानाधिकरण्यं विभक्तिविषये योऽस्थानीत्यर्थः, स्यादिप्रस्तावाद् वेति । ननु युष्मयतेरस्मयतेश्च क्विपि कृतेऽन्त्यस्वरादिलोपे 'युष्मा, अस्मा' इत्यत्राप्येत्वं कथन्न भवति ? सत्यम् । इहापि व्यवस्थितविभाषा स्मर्तव्येति । तथा त्वदयतेर्मदयतेश्च त्वेन, मेन इति । अन्यस्त्वाह - एत्वमिति नायं भावप्रत्ययः, किं तु 'ए+तु + अम्' प्राप्नोति । अकारस्य स्थानम् उपचारादकारशब्दवाच्यम् । तन्मते न क्विपि सति ‘त्वया, मया' स्यात् । "एत्वमस्थानिनि" (२।३।१७) इति सर्वस्मिन् प्रतिपत्तव्यम् ।।२३८।।
[वि० प०]
एत्वम् । स्थानशब्दोऽयं निवृत्तावपकर्षे प्रसङ्गे च वर्तते । तद् यथा - 'श्लेष्मणः स्थाने त्रिकटुकमौषधं प्रयुञ्जीत' । श्लेष्मणो निवृत्तिरिति गम्यते । ‘गवां स्थाने अश्वा वध्यन्ताम्' । गवाम् अपकर्ष इति । 'दर्भाणां स्थाने शरैरास्तरितव्यम्' । दर्भाणां प्रसङ्ग इति । तत् किमर्थस्यात्र स्थानशब्दस्य ग्रहणमित्याह - स्थानमिति । यदा शसादीनां प्रसङ्गे प्रयोगे आनादय आदेशा उच्चार्यन्ते तदा एत्वं न भवतीत्यर्थः । वाशब्देन निवृत्तिमपि दर्शयति । यद्यपि शब्दानां नित्यत्वं तथापि प्रक्रियाद्वारेण निवृत्तेः संभवात् शसादिकं निवर्त्य यदा आनादय आदेशा भवन्ति