________________
३७८
कातन्त्रव्याकरणम् २३८. एत्वमस्थानिनि [२।३।१७] [सूत्रार्थ]
आदेशभिन्न स्यादि प्रत्यय के परे रहते 'युष्मद्- अस्मद्' शब्दों में अन्त्य वर्ण को एकारादेश होता है ।। २३८ ।
[दु० वृ०]
स्थानं प्रसङ्गो वा । अप्रसङ्गिनि अनादेशिनि स्यादावेषाम् अन्तस्यैत्वं भवति । त्वया, मया । युवयोः, आवयोः । त्वयि, मयि, अतित्वयि, अतिमयि | अस्थानिनीति किम् ? युष्मान्, अस्मान् । अतित्वान्, अतिमान् ।।२३८ ।
[दु० टी०]
एत्वम् । ननु भूत्वा यो विनश्यति स स्थानी | अभूत्वा य उत्पद्यते, सोऽस्थानी । शब्दा नित्याश्चेद् विनाशेऽपि उत्पादनेऽपि नित्यत्वहानिप्रसङ्गः ? नैष दोषः। स्थितिः स्थानम्, तच्च त्रिधा - निवृत्तिः, अपकर्षः, प्रसङ्गश्च । तद् यथा- श्लेष्मणः स्थाने त्रिकटुकमौषधं प्रयुञ्जीत । श्लेष्मणो निवृत्तिरिति गम्यते । गवां स्थाने अश्वा बध्यन्ताम् | गवामपकर्ष इति । दर्भाणां स्थाने शरैरास्तरितव्यम् | दर्भाणां प्रसङ्ग इति । निवृत्त्यपकर्षयोर्द्रव्यधर्मवाचित्वात् प्रसङ्गे स्थानमिदम् | अस्तेरर्थकृते प्रसङ्गे भूर्भवतीति ।
अथवा तिष्ठत्यस्मिन् शब्द इति स्थानमर्थ उच्यते । अस्तेरर्थे भूरुच्चार्यते इत्यर्थः । एकदेशेऽप्यर्थोऽस्ति, तेन विना तस्याप्रतीतेरित्याह- स्थानमित्यादि । यद्येवम्, अत् पञ्चम्यादिषु षष्ठी भवितुमर्हतीति ? नैवम् । यस्य प्रसङ्गे (प्रयोगे) यो भवति स एवेत्युपचारान्न विरुध्यते । प्रसङ्गो वेति वाशब्देन निवृत्तिवचनमपि स्थानं प्रमाणीकृतम्, वर्णादिसङ्केतप्रक्रियामवलोक्य बालादिसुखबोधहेतुरिति । स्थानं विद्यतेऽस्येति भेदेऽप्यवस्थानिवृत्तिस्तु न विरुध्यते तथा प्रतिभाषणात् । उक्तं च,
प्रयोगकाले शब्दानां लोपादेशागमादयः। न सन्ति तत्स्वभावस्य सिद्धस्यैव प्रसिद्धितः॥ व्युत्पादने पदानां तु तेषु लक्षणसाक्षिणः। व्यवहाराः प्रवर्तेरन् विकारेष्वप्यदः समम् ॥