________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
३६१ ३. अतियुवाभिः। अतियुष्मद् + भिस् । अत्यावाभिः । अति + अस्मद् + भिस् । युवामतिक्रान्तैः , आवामतिक्रान्तैः । पूर्ववत् दकारलोप, प्रकृत सूत्र से 'युव-आव' आदेश तथा अन्त्य अकार को आकार आदेश ।। २२८।
२२९. अमौ चाम् [२।३।८] [सूत्रार्थ]
'युष्मद्-अस्मद' शब्दों से आने वाले द्वितीयाविभति- एकवचन 'अम्' प्रत्यय तथा प्रथमा- द्वितीया- द्विवचन ‘औ' प्रत्यय इन दोनों के १: में ‘आम्' आदेश होता है ||२२९।
[दु० वृ०]
युष्मदस्मदादिभ्य: परोऽमौ चाम् भवति । त्वाम्, माम् । युवाम्, आवाम् । द्विवाच्यधिकाराद् वा साहचर्यं न स्यात् ।। २२९ ।
[दु० टी०]
अमौ । प्रत्येकम् इह लुप्तप्रथमैकवचनम् अतश्चकारः क्रियते । तेन अम्सहचरित औकारो न गृह्यते । सत्यपि युष्मदस्मदोर्द्वित्वे यथासंख्यं न भवति, वैषम्यसंबन्धात् । द्विवाच्यधिकाराद् वेति पक्षान्तरं सूचयति । भवतु अत्रैकं पदम् अधिकृतद्विवाचिविशेषणबलात् सामान्ये औकारो भविष्यति ।एषामित्यर्थवशात् पञ्चम्यन्त इहेति । एभ्यो युष्मदस्मदादिभ्य इत्यर्थः कुतो व्यक्तिभेदे यथासंख्यमिति चकारस्तूक्तसमुच्चयमात्रे । दीर्घवानयमादेशो ह्रस्ववांश्चेदमोऽम्विधानमनर्थकं स्यात् । न चानर्थकम् “एत्वमस्थानिनि" (२।३।१७) स्यात् । यद्येवं मकारमात्रमेव विदधीत वर्णान्तत्वादन्ते तर्हि तद् भवति । परस्यादेरिति कैश्चिदिष्यते, तन्न सम्मतम्, अतो व्याख्यानतो विशेषार्थप्रतीतेः ।।२२९।
[वि० प०]
अमौ । चकारोपादानादिह प्रत्येकं लुप्तप्रथमैकवचनम् । अत आह -अम् औ चेति । 'अम्' तावद् द्वितीयैकवचनम्, तत्सहचरित औकारोऽपि द्वितीयाया एव कथं न गृह्यते इत्याह - द्विवाच्यधिकाराद् इत्यादि । युवावौ द्विवाचिष्विति । अतो