________________
३६२
कातन्त्रव्याकरणम्
द्विवाच्यधिकारोऽनुवर्तते स चौकारेणैव सह संबध्यते, अमोऽसम्भवात् । अतो द्विवाची य औकार इति सूत्रार्थे कुतः साहचर्याशङ्केति भावः । वाशब्देन तु प्रत्येकं भिन्नविभक्तिनिर्देशादिति सूच्यते । अन्यथा द्वन्द्वे सति एकपदे चकारोऽपि न कृतः स्यात्, तेन प्रथमाद्विवचनस्यापि आम् सिद्धमिति भावः ।। २२९।
[क० च०] ___ अमौ ! कुतः साहचर्याशङ्का इति पनी | ननु द्विवाच्यधिकारेण कथं साहचर्याशङ्का निराक्रियते, द्वितीयाद्विवचनस्यापि द्विवाच्यधिकारादिति विशेषणत्वेन चरितार्थत्वादिति चेत्, नैवम् । अभिप्रायापरिज्ञानाद् द्विवाचिपदेन सामान्य औकार एव गृह्यते । अत एव प्रथमाद्विवचनस्यापि ग्रहणम्, अन्यथा द्विवाचिग्रहणमेव व्यर्थं स्यात्, द्वितीयाद्विवचनस्यापि द्विवाचित्वव्यभिचारात् । तथा च तस्य व्याप्त्यर्थ इति भावः । ननु अर्थवशाद् विभक्तिविपरिणामः क्रियते, स चार्थः प्रकारान्तरेणैव घटते इति, किं विभक्तिवचनयोर्विपरिणामेन द्विवाच्यधिकारः क्रियते इत्याह - वाशब्देनेति ।
अन्यथेति । भिन्नविभक्तिनिर्देशेन साहचर्याभावं विनेत्यर्थः चकारोऽपि न कृतः स्यादिति । ननु यथासङ्ख्यनिरासार्थं भिन्नपदपरिचायकश्चकारः कर्तव्य एव । तत्कथमुक्तम् - चकारोऽपि न कृतः स्याद् इति ? सत्यम् । साहचर्यं हि एकवाक्योपात्तेनैव संभवति, तत्र यदि साहचर्यार्थमेकवाक्यमङ्गीक्रियते तदा यथासङ्ख्यमपि दुर्निवारम्, चकारोऽपि व्यर्थ एव स्यादिति । तेन साहचर्यसम्भवे यथासंख्यं संभवति, तन्निवृत्तौ तस्यापि निवृत्तिः । कुलचन्द्रस्तु ‘अमौ' इति स्वरूपेण प्रथमा, अतः
औकारस्वरूपं गृह्यते इति द्वयोरेव औकारयोर्ग्रहणात् कुतः साहचर्यम्, भिन्नविभक्तिनिर्देशाद् युष्मदस्मदोरम् आम् भवति । युष्मदस्मदोरौकार आम् भवति । वैषम्यसंबन्धात् कुतो यथासंख्यमिति भावः ।आकारवानयमादेश इति । नन्वकारवानेव कथं न क्रियते । एवं सति त्वाम् इति पदं स्यात् । तदा अमः आम् - विधानम् अनर्थकमिति, नैवम् । "एत्वमस्थानिनि" (२।३।१७) इत्यस्य वारणार्थं भविष्यति । अथ यदि एत्ववारणमेव साध्यम्, तदा मकारमेव विदध्यात् । एकवर्णत्वादन्ते भविष्यति, न च प्रथमया चेति न्यायेन सर्वस्य भविष्यतीति वाच्यम्, अस्याः परिभाषाया अनङ्गीकरणात् ।
अथ आम्-विधानस्याकारे, प्रयोजनमस्ति, अन्यथा मकारे कृते 'अकारो दीर्घ घोषवति' (२।१।१४) इति दीर्घः स्यादिति, नैवम् । “आत्वं व्यानादौ" (२।३।१८)