________________
३६०
कातन्त्रव्याकरणम्
अतिक्रान्ताविति प्रत्येकमभिसंबध्यते । त्वामतिक्रान्तौ युष्मान् अतिक्रान्तावित्यर्थः । "अमौ चाम्" (२।३।८) इत्यौकारस्यामादेशः । युष्मदीय इति । युवयोरयमिति विगृह्य पूर्ववद् ईयप्रत्ययः । इह यद्यपि "प्रत्ययलोपलक्षणन्यायेन" (का० परि० ५२) द्विवचनं दृश्यते तथापि युवावौ न भवतः अन्तस्यालोपाद् इत्याह - प्रत्यय इत्यादि । एतदुक्तं भवति पूर्वसूत्रादन्तलोप एवानुवर्तते, स चार्थवशात् सप्तम्या संबध्यते । ततोऽन्तलोपे सति युवावावित्यर्थः । इह चान्तलोपो नास्ति साक्षाद् विभक्तौ तस्य विहितत्वादित्याह - प्रत्यय इत्यादि ।।२२८।
[क० च०]
युवावौ० । युवावादेशौ अकारान्तौ । अन्तलोपे सति आदेशिनोऽकारान्तस्य साहचर्यात्, तन्न । आचक्षाणे व्यञ्जनान्तयोरपि दर्शनात् । तस्मादकारान्तत्वे आम्नाय एव शरणमिति साम्प्रदायिकाः । ननु ‘अव' इति कथं नाशक्यते, नैवम् । सन्धावपि आव एव प्रतीयते, न तु अवः, दृष्टपरिकल्पनावशात् । पनीप्रदीपेऽधिकमाह - प्रत्ययलोपलक्षणेनान्तालोपादिति । अथ युष्मत्पुत्र इत्यादौ "व्यञ्जनान्तस्य यत् सुभोः" (२।५।४) इत्यतिदेशबलात् प्रत्ययलोपलक्षणं न कुर्यात्, सत्यम् । तस्य बाधकं युवावैनमघवदर्वत्स्वेव प्रत्ययवदिति प्राप्नोति ।। २२८।
[समीक्षा]
'युष्मद् + औ, युष्मद् + भ्याम्, अस्मद् + औ, अस्मद् + भ्याम्' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ने ही 'युष्मद्' को 'युव' तथा 'अस्मद्' को 'आव' आदेश करके 'युवाम्, युवाभ्याम्, आवाम्, आवाभ्याम्' शब्दरूप सिद्ध किए हैं । पाणिनि का सूत्र है - "युवावौ द्विवचने'' (अ० ७।२।९२) । अतः उभयत्र गौरवलाघव निश्चित नहीं किया जा सकता ।
[रूपसिद्धि]
१. युवाभ्याम् । युष्मद् + भ्याम् । “एषां विभक्ताव०" (!३।६) से अन्तिम वर्ण द् का लोप, प्रकृत सूत्र से 'युव' आदेश तथा “आत्वं व्यञ्जनादौ" (२।३।१८) से अकार को आकारादेश ।
२. आवाभ्याम् । अस्मद् + भ्याम् । अन्त्य दकार का लोप, प्रकृत सूत्र ‘आव' तथा अकार को आकारादेश |