SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३५८ कातन्त्रव्याकरणम् २२८. युवावौ द्विवाचिषु [ २।३।७] [ सूत्रार्थ] 'औ' आदि द्विवचन के परे रहते ‘युष्मद्' को 'युव' तथा 'अस्मद्' को 'आव' आदेश होता है ।।२२८) [दु० वृ०] युष्मदस्मदोढ़िवाचिषु परतो युवावौ भवतो यथासंख्यम् । युवाभ्याम्, आवाभ्याम् । अतियुवाभिः, अत्यावाभिः । श्रुतयोर्द्धिवाचिष्विति किम् ? त्वां युष्मानतिक्रान्तौ - अतित्वाम्, अतियुष्माम् । युवयोः पुत्रः युष्मत्पुत्रः । युवयोरयं युष्मदीयः । प्रत्ययलोपलक्षणेनान्तालोपात् ।। २२८ । [दु० टी०] युवा० । अकारान्तावतावादेशौ । व्याख्यानाद् विशेषार्थप्रतिपत्तिः। द्वौ वक्तुं शीलमेषामिति नाम्न्यजातौ णिनिः । द्विवाचिन इह स्यादय एवार्थात् 'युवामतिक्रान्तैः, आवामतिक्रान्तैः' इति विग्रहे अन्तर्वर्तिद्विवचनमाश्रित्य युवावौ भवत एव 'प्रत्ययलोपे प्रत्ययलक्षणम्' (का० परि० ५२) इति न्यायात् । एतदुक्तं भवति यदा युष्मदस्मदी द्वित्वे वर्तेते समासप्रकृतिश्चैकत्वबहुत्वयोस्तदापि युवावौ परत्वाद् यदि त्वमहमादिभिर्न बाध्यते । एवं युवामावामतिक्रान्तेन अतियुवया, अत्यावया |युवामावामतिक्रान्तेभ्योऽतियुवभ्यम्, अत्यावभ्यम् । युवामावामतिक्रान्तादतिक्रान्तेभ्यो वा अतियुवत्, अत्यावत् । युवामावामतिक्रान्तानाम् अतियुवयाम्, अत्यावयाम् । युवामावामतिक्रान्ते अतियुवयि, अत्यावयि । युवामावामतिक्रान्तेषु अतियुवासु, अत्यावासु । श्रुतयोरित्यादि । युष्मदस्मदोर्युवावौ युष्मदस्मदोरेव द्विवाचिषु 'श्रुतानुमितयोः श्रौतसंबन्धो विधिर्बलवान्' (का० परि० ९२) इति न्यायात् । तेन यदा युष्मदस्मदी एकत्वबहुत्वयोवर्तेते समासप्रकृतिश्च द्वित्वे तदा युवावौ न भवतः इत्यर्थः । युवयोः पुत्र इत्यादि । उत्तरपदे प्रत्यये च प्रत्ययलोपे प्रत्ययलक्षणमिति वचनेऽपि सति न युवावौ युष्मदस्मदोरन्तस्यालोपात्, तदेतत् कथम् अन्तलोप इति सप्तम्यन्तमर्थवशाद् वर्तते तेनान्तलोपे सतीत्यर्थः । एषामिति वा वर्तते । अर्थवशाद् द्विवचनेन संबन्धः, एकत्वे त्वन्मदोर्विषयत्वात् । तेनानयोर्युष्मदस्मदोः कृतान्तलोपयोरित्यर्थः ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy