________________
कातन्त्रव्याकरणम्
[क० च०]
एषाम् । इह परत्वादिति । ननु कथमत्र परत्वम्, उभयोः सावकाशे हि तद् भवति । न ह्यन्तलोपमन्तरेण एकस्य सावकाशोऽस्तीत्याह - लोपात् स्वरादेशस्य बलवत्त्वादिति । 'अन्त्यलोपस्वरादेशयोः स्वरादेशो विधिर्बलवान्' (का० परि० ३५) इति षष्ठीतत्पुरुषपक्षे कथमेत्वस्य स्वरादेशत्वं दकारस्य स्थाने विधीयमानत्वादित्याह - नित्यत्वादिति । नित्यत्वं च कृताकृतप्रसङ्गिन एव । ननु “ईयस्तु हिते" (२।६।१०) इत्यत्र योगविभागस्य नियतविषयत्वात् कथमत्र भविष्यतीत्याह – अथवेत्यादि । विभक्तावित्यस्य व्यावृत्तेरभावादिति । ननु कथमेतदुक्तं यावता ‘अतित्वन्' इत्यादौ "लुग्लोपे न प्रत्ययकृतम्" (३।८।२९) इति न्यायात् प्रत्ययलोपलक्षणन्यायस्याभावाद् अत्रैव व्यावृत्तिर्घटते इति । कथं 'युष्मत्पुत्रः , त्वदीयः' इत्यादौ नान्तलोपः ? सत्यम् । मा भूत्, समुदायाश्रितविभक्तेरन्यस्माद् इत्यादिना लुकि प्रत्ययलोपलक्षणस्याविषयः, किन्तु त्वय्यधि अधित्वदित्यादौ वाक्ये “अन्यस्माल्लुक्" (२।४।३) इत्यादिना लोपात् प्रत्ययलोपलक्षणेनात्राप्यन्तलोपप्रसङ्गः, तस्माद् युक्तमुक्तम् व्यावृत्तेरभावात्' इति । अतो विभक्तिग्रहणं साक्षाद् विभक्तिप्रतिपत्त्यर्थमेवेति भावः । ननु तथापि कथमिदमुच्यते समासे लुप्तायां विभक्तौ प्रत्ययलोपलक्षणन्यायस्याभावात् । तथाहि समासे लुप्तायां विभक्तौ प्रत्ययलोपलक्षणन्यायेन सिद्धे यद् व्यञ्जनान्तस्य यत्सुभोरिति वचनं तन्नियमार्थम् "व्यानान्तस्य यत्सुभोः" (२।५।४) इत्युक्तमेव कार्यं भवति नान्यदिति । अत एव राजेव राजवदित्यत्र प्रत्ययलोपलक्षणन्यायेन घुटमाश्रित्य प्राप्तोऽपि दीर्घो न भवति । न च तर्हि त्वत्पुत्रः' इत्यादौ कथं प्रत्ययलोपलक्षणन्यायेन प्राप्तिर्येन प्रत्युदाहियते इति वाच्यम् । विभक्त्युक्तकार्यस्यापि सुभोक्तत्वादिति चेत् प्रकृतेऽपि दीयतां दृष्टिः ।
तथाहि ‘अधित्वत्' इत्यत्र विभक्त्युक्तत्वेन सुभोक्तत्वादन्तलोपश्च प्रवर्तते इति दिक् । अथ ‘युवाभ्याम्' इत्यादौ कथमकारस्य लोपः, नैवम् । अकारकरणसामर्थ्यादिति चेत्, अकारलोपाभाव एवाकारकरणस्य फलम् । अन्यथा अन्तस्थत्वाद् वलोप एव गम्यते । अथ अकारकरणेनैव कथं लोपाभावः साध्यते, अकारस्य स्थानिवद्भावादिति चेत्, न । लोपविधिं प्रति स्थानिवद्भावस्य निषिदचत तस्मादकारकरणादेव नाकारलोपः । यद् वा 'एषाम्' इत्यनेन बहुवचनेन पूर्वोत्तम पार एव गृह्यन्ते, न तु स्थानिनौ युवावाविति ।।२२७।