________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः कश्चिदाह - अव्यक्तलिङ्गे अलिङ्गे वा सामान्यरूपत्वान्नपुंसकस्येत्यव्यक्तगुणसंदेहे नपुंसकलिङ्गं प्रयुज्यते । तथाहि ‘युष्मभ्यं ब्राह्मणीभ्यः' इति समासेऽपि सामान्येन प्रतिपत्तिः । अपरः कश्चिदाह – सलिङ्गयोरपि युष्मदस्मदोः स्त्रियामादा न स्यात् 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (का० परि० ३१) इति । कथं ‘या, सा' ? अनित्यत्वमपि दृश्यते अस्या इत्यविरोधः । तेनात्रान्त्यस्वरादिलोपो नाद्रियते इति व्यवस्थितम् ।अत्वविधौ द्विपर्यन्ता हि त्यदादयः अप्रदानयोश्च युष्मदस्मदोर्विधिरयमिति वचनमारभ्यते ।। २२७।
[वि० प०]
एषाम् । युष्मदस्मदी प्रवर्तेते तद्ग्रहणेन त्वन्मदोरपि ग्रहणं भवत्येव तयोस्तत्स्थानित्वात् तत् किमेषांग्रहणेनेति । अथानन्तरत्वात् त्वन्मदी एव प्रवर्तेते, अतः एषामित्युच्यते । यद्येवं पूर्वयोरपि योगयोः कथं सामान्यम्, अथ 'विशेषातिदिष्टः प्रकृतं न बाधते' (का० परि० १९) इति चेद् अत्रापि भविष्यति ? सत्यम्, एषांग्रहणं. सम्बन्ध्यधिकारनिवृत्त्यर्थम्, तेन पदादिति न वर्तते । पदं तु स्वत एव निवृत्तं विभक्तौ परत इति वचनात् । यद्येवम् “एषां विभक्तौ" इत्युक्ते श्रुतत्वादेषामेव विभक्तावन्तलोपः स्यात्, न समाससंबन्धिन्याम् ।
___ 'त्वामतिक्रान्तान्, मामतिक्रान्तान्, अतित्वान्, अतिमान्' इति ? सत्यम् । विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तचात् नैवं सम्बन्धः, किन्त्वन्यथैव इत्याह – 'विभक्तौ परतः' इत्यादि । युष्मभ्यम्, अस्मभ्यम् इत्यादि अन्तलोपे "भ्यसभ्यम्' (२।३।१५) । युष्मान्, अस्मान् इत्यादि । आन् शस् । त्वयि, मयीति “एत्वमस्थानिनि" (२।३।१७) इत्येत्वम् । इह परत्वात् लोपात् स्वरादेशस्य बलवत्त्वात् नित्यात्वाच्च प्रागेव दकारस्यैत्वं प्राप्तम् इहान्तग्रहणबलात् प्रागेव लोप इति । यत: 'प्रत्ययस्य सर्वापहारी लोपः, प्रकृतेरन्त्यापहारी लोपः' (का० परि० २५, ५६) इति न्यायात् । अन्तस्यैव लोपे सिद्ध यदन्तग्रहणं तदन्तदर्शनादेव लोपार्थमिति भावः । विभक्तावित्यादि । युष्मत्पुत्र इति युष्माकं पुत्रो यूयं वा पुत्रा यस्येति विग्रहः । त्वदीय इति तत्र योगविभागात् त्यदादिभ्यः शेषेऽर्थे ईयो दृश्यते । तवायं त्वदीय इति । अथवा “ईयस्तु हिते" (२।६।१०) इत्येव भवति । तुभ्यं हितस्त्वदीय इति । न च वक्तव्यम इह प्रत्ययलोपलक्षणन्यायेन कथं न भवतीति विभक्कावित्यम्य व्यावृत्तेरभावात् ।। २२७।