________________
३५४
कातन्त्रव्याकरणम्
३५४
[दु० टी०]
एषाम् । ननु युष्मदस्मदोर्ग्रहणेन त्वन्मदोरपि ग्रहणमुक्तम् । अथानन्तरत्वात् त्वन्मदी वर्तेते त्वन्मदी चेत् तर्हि "न पादादौ, चादियोगे च" (२।३।४,५) इति कथं समासः, तत्र 'विशेषातिदिष्टः प्रकृतं न बाधते' (का० परि० १९) इति चेत्, इहापि तद्वद् ‘एषाम्' – ग्रहणं किमर्थम् ? सत्यम् । सम्बद्धाधिकारनिवृत्त्यर्थम् । अन्यथा ‘पदात्' इत्यपि वर्तते (पदं तु न वर्तते), विभक्तौ परत इति वचनात् । यद्येवम् 'एषां विभक्तौ' इत्युच्यमाने श्रुतत्वात्, त्वामतिक्रान्तान् ‘अतित्वान्' इति सिध्यति । नेयं विभक्तिर्युष्मदः किन्तर्हि समासस्य, नैवम्, विशेषणविशेष्यभावस्येष्टार्थत्वादित्याह - विभक्तौ परत इत्यादि । बहुवचनं तु (न) व्यक्तिभेदादिति, तेन प्रत्ययलोपलक्षणन्यायेनापि उत्तरपदे प्रत्यये न लोपो न भवति, विभक्तावित्यस्य व्यावृत्तेरभावाद् इत्यर्थः । कथं युष्मभ्यम्, युष्भ्यम्, अस्भ्यम् । युष्मानस्मान् वाचष्ट इतीनन्तात् क्विपि कृते विभक्तौ मान्तस्य लोपो वा भवति । एकदेशविकृतस्यानन्यवद्भावाद् इहापि इष्टार्थो वाऽधिकार इति ।
ननु प्रत्ययस्य सर्वापहारी लोपः प्रकृतेः पुनरन्त्यापहारी लोपो दृश्यते इत्यादि । यथा "श्चिमस्जोधुटि"(३।६।३५) इति, सत्यम् |इहान्तग्रहणमन्तदर्शनादेव लोपार्थम् । अन्यथा त्वया, मया' इत्यत्र परत्वात् लोपात् 'स्वरादेशो विधिर्बलवान्' (का० परि० ३५) इति प्रागेत्वं स्यात् । ननु 'युष्मभ्यं ब्राह्मणीभ्यः' इत्यन्तलोपे “स्त्रियामादा" (२।४।४९) कथं न स्यात्, युष्मदस्मदोरलिङ्गत्वाद् इति । न च वक्तव्यम् ‘नालिङ्गे युष्मदस्मदी, सत्त्वार्थत्वात्' । सत्त्वार्थस्य हि लिङ्गसंख्याभ्यां योगो दृश्यते । तस्माल्लिङ्गविशेषद्योतकस्य विधेर्निमित्तभावात् “स्त्रियामादा" (२।४।४९) भवितुमर्हति, कथमिति चेत् । यथा इन्द्रियाणां नियतविषयवर्तित्वम्, स्वभावात् । तथा संस्थाना रेयुक्तेऽप्यर्थे वर्तमानयोर्युष्मदस्मदोरपि लिङ्गत्वमवसीयते । संस्थानादेरनाश्रयत्वाद् अनुस्वमवेदम् एवंजातीयकमिति वा । यथा ‘पञ्च, सप्त' इति लिङ्गमन्तरेण व्यपदेशात स्त्रियाम् ईप्रत्ययो न भवति । तथा च भाष्यकृतापि ष्णान्तायाः संख्यायाः प्रतिषेधः प्रत्याख्यायते । किञ्च स्त्रियामादाभिर्विनापि स्त्रीत्वप्रतीतेः । यथा 'दृशत्, समित्' इति रूपान्तरम् । पुंलिङ्गं तु उत्सर्गतया प्रयुज्यते येन केनचिल्लिङ्गेन निर्देश: कर्तव्य इति :