________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः कार्यसम्प्रत्ययो भविष्यति' (का० परि० २) किं योगग्रहणेन ? सत्यम्, सुखार्थमेव | टीकायां पुनरन्यदेव प्रयोजनम् उक्तम्, तच्च वृत्तिव्याख्यानेऽप्रस्तुतमिति नोच्यते ।।२२६ ।
[क० च०]
चादि० । पञ्चैव चादय इति पञी। च-वा-ह- अह- एवेति । कस्याश्चित् पुस्तिकायामेवमित्येव पाठः । स चायुक्त एवेति अव्ययगणपरिपठितानां चादीनां ग्रहणसम्भवे अस्य ग्रहणे प्रमाणाभावात् । अन्यथा अहशब्दात् पूर्वम् एवंशब्दमेव पठेत् । चादिनेति तृतीयायाः सहार्थे समासाभावात् चादेर्योग इति षष्ठीसमासः चादिना योग इति वाक्यम् अनुकथनमात्रप्रदर्शनार्थं दर्शितम् । गौणश्चेति युग्मदस्मदादयश्चादिना समुच्चीयन्ते, न तु सम्बन्धिवस्त्वन्तरं तदेतैः सह मुख्ययोग इति ।।२२६ ।
[समीक्षा]
'पुत्रो युष्माकं च, पुत्रोऽस्माकं च' आदि 'च- वा-ह- अह- एव' इन पाँच शब्दों के प्रयोग वाले वाक्यों में 'वस्- नस्' आदि आदेशों का निषेध कातन्त्र तथा पाणिनीय दोनों ही व्याकरणों में किया जाता है | पाणिनि का सू. है – “न च-वा- हाहैवयुक्ते" (अ० ८।१।२४)।
[रूपसिद्धि]
१. पुत्रो युष्माकं च, पुत्रोऽस्माकं च, पुत्रोऽस्माकं वा, पुत्रोऽस्माकं ह, पुत्रोऽस्माकम् अह, पुत्रोऽस्माकम् एव' इत्यादि वाक्यों में "युष्मदस्मदोः पदं पदात् षष्ठीचतुर्थीद्वितीयासु वस्नसौ" (२ । ३ । १) इत्यादि से प्राप्त ‘वस्- नस्' आदि आदेशों का प्रकृत सूत्र द्वारा निषेध ।।२२६।
२२७. एषां विभक्तावन्तलोपः [२।३।६] [सूत्रार्थ]
विभक्ति के परे रहने पर 'युष्मद्- अस्मद्- त्वद्- मद्' के अन्तिम वर्ण का लोप होता है ।।२२७।
[दु० वृ०]
विभक्तौ परतो वर्तमानानामेपामन्तस्य लोपो भवति । युष्मभ्यम्, अस्मभ्यम् । अतियुष्मभ्यम्, अत्यस्मभ्यम् । अतित्वान्, अतिमान् । त्वयि, मयि । अतित्वयि, अतिमयि । विभक्ताविति किम् ? युष्मत्पुत्रः, त्वदीयः ।। २२७।