SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३५२ कातन्त्रव्याकरणम् २२६. चादियोगे च [२।३।५] [ सूत्रार्थ] 'च' आदि शब्दों के योग में 'युष्माकम् - अस्माकम्' आदि शब्दों के स्थान में 'वस्- नस्' आदि आदेश नहीं होते हैं ।। २२६ | [दु० वृ०] चादिना योगे वर्तमानानां युष्मदस्मदादीनां पदम् एतान् आदेशान् न प्राप्नोति । पुत्रो युष्माकं च । पुत्रोऽस्माकं च । एवमादि - च, वा, ह, अह, एव । गौणयोगे न स्यात् । ग्रामश्च ते स्वम्, नगरं च मे स्वम् || २२६ | [दु० टी० ] चादि० । चादिना योग इति । चादिना गणेन योगे संबन्धे सति युष्मदस्मदादीनामित्यर्थः । आदिशब्द इह व्यवस्थावचनः । यथा देवदत्तादीन् उपविष्टान् आनयेत्युक्ते यथाव्यवस्थितानेवानयति । एवमादीति । ग्रामो युष्माकम्, ग्रामोऽस्माकं वा । ग्रामो युष्माकं ह, ग्रामोऽस्माकं ह । ग्रामो युष्माकमह, ग्रामोऽस्माकमह । ग्रामो युष्माकमेव, ग्रामोऽस्माकमेव । एवं वांनावादयोऽपि न भवन्तीति प्रतिपत्तव्यम् । गौणयोग इति । ग्रामश्चादिभिर्युक्तस्तेन युक्तानां युष्मदस्मदादीनाम् आदेशा भवन्त्येवेत्यर्थः । तर्हि 'गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययो भविष्यति' (का० परि० २ ) किं योगग्रहणेन ? सत्यम् | अप्यत्र गौणयोगेऽपि विधिर्भवतीति ज्ञापयति । तेन 'ग्रामस्तव स्वं समीक्ष्य गतः ' इति स्वशब्दस्य हि दर्शनार्थेर्मुख्ययोगो न युष्मदस्मदादीनामिति || २२६ । [वि० प० ] चादि० । एवमादीति ।‘पुत्रो युष्माकं वा, पुत्रोऽस्माकं वा' इत्याद्यप्युदाहर्तव्यमिति भावः । पञ्चैव चादयः । इह आदिशब्दस्य व्यवस्थावाचित्वाद् गौणयोगे न स्यादिति । चादिना चेति सहयोगविवक्षायां तृतीयानिर्देशन सिध्यति यद् योगग्रहणं तन्मुख्ययोगपरिग्रहार्थम्, तेनेह न भवति प्रतिषेधः । ' ग्रामश्च ते स्वम्, नगरं च मे स्वम्' इति । ग्रामो हि चादिना युक्तस्तद्वाचकश्चादियोगो न युष्मदस्मदोः साक्षाद् अतो गौणत्वं चादियोगस्य न केवलं तव स्वं ग्रामश्चेत्यर्थः । यद्येवं 'गौणमुख्ययोर्मुख्ये
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy