________________
३४१
नामचतुष्टयाध्याये तृतीयो युष्पत्पादः
३४१ अत एव पदात् युष्मदस्मदोः पदमिति न कृतः क्रमः । अथवा वाक्यादपोद्धृत्य पदानि संस्क्रियन्ते । यस्य वाक्यस्य युष्मदस्मदी तस्यैव वाक्यस्य श्रुतस्य पदादिति ।
आपिशलीयमतं तु, पादस्त्वर्थसमाप्तिर्वा शेयो वृत्तस्य वा पुनः।
मात्रिकस्य चतुर्भागः पाद इत्यभिधीयते ॥ मात्रा परिमाणमस्य आर्यादिर्मात्रिक उच्यते, तेन "न पादादी" (२।३।४) इत्यनेनैव प्रतिषेधः । पादग्रहणं सविभक्त्यर्थम्, भावलक्षणा सप्तमीयम् । षष्ठीचतुर्थीद्वितीयासु सतीषु भवति, लुप्तासु न भवति । अत एव युस्मदस्मदो: सषष्ठीचतुर्थीद्वितीययोरिति न विदध्यात्, समासपदावयवत्वाद् वा गौणत्वम् । तेन युष्मत्पुत्र इति, अस्मत्पुत्र इति च सिद्धम् । युष्मदः पदम्, अस्मदः पदमिति प्रत्येकमभिसंबन्धात् पदे द्वे इति यथासंख्यं सामर्थ्याल्लब्धम् । इह द्विवचनार्थमित्यौसर्गिकमेकवचनम् । यथा - माषेण क्रीतम्, मुद्गेन क्रीतम् । एकेन द्वाभ्यां च क्रयो नास्तीति बहुवचनमन्तरेणापि बहुभिरिति गम्यते । बहुत्वेऽर्थे वर्तमानासु इति कथं पुनरिह बहुत्वमिति लभ्यते इति चेत्, द्वित्वैकत्वयोरादेशान्तरविधानात् । न च वक्तव्यं तत्र विकल्पपक्षे कथमेतौ न भवत इति, यतः 'अपवादविषयं परित्यज्य उत्सर्गः प्रवर्तते' (का० परि० ५५)।
पदं कर्तृ प्रकृतिः वस्नसौ विकारौ प्राप्नोतीत्यर्थः विभाषानुवर्तते एव । न च पदान्तरमधिकारनिवृत्तिकारणमिति । ननु प्रिया यूयं येषाम्, प्रिया वयं येषामिति विग्रहे प्रिययुष्मयाम्, प्रियास्मयाम् । प्रिययुष्मभ्यम्, प्रियास्मभ्यम् । प्रिययुष्मान्, प्रियास्मान् इति कथं वस्नसौ न भवतः इति । इहान्तर्वर्तिनीं विभक्तिम् आश्रित्य पदादिति ? सत्यम् । युष्मदस्मदोरेव संवन्धिनीषु षष्ठीचतुर्थीद्वितीयासु श्रुतत्वान्न समासस्येति । अथवा युष्मदस्मदोर्वाक्यस्यावयवयोरिति निश्चितम्, कथं पदावयवयोर्वस्नसाविति ।। २२२ ।
[वि० प०]
युष्मदस्मदोः ० । ननु कथं युष्मदस्मदोः पदमुच्यते यावता प्रकृतिविभक्त्योः समुदाय : पदम् ? सत्यमेतत् । तथाप्युभयोः स्थाने यो निष्पद्यते स लभतेऽन्यतरव्यपदेशम् । यथा देवदत्तयोः पुत्रो देवदत्तस्य चेति तथेहाप्यदोषः । यस्यैव वाक्यस्य