________________
३४२
कातन्त्रव्याकरणम्
युष्मदस्मदोः पदं श्रुतत्वात् तस्यैव वाक्यस्य पदादिति वेदितव्यम् । तेन ‘स फ्चति, युष्माकं पुत्रो गायति । स पचति , अस्माकं पुत्रो रोदिति ' तथा 'ओदनं पचति, युष्माकं पुत्रो भविष्यति । ओदनं पचति, अस्माकं पुत्रो भविष्यति' इत्यादिषु भिन्नवाक्येषु पदाद् वस् - नसादयो न भवन्तीति षष्ठीचतुर्थीद्वितीयास्विति कालभावयोः सप्तमी एतासु सतीषु भवति, लुप्तासु न भवतीत्यर्थः । बहुत्वे इति बहुत्वेऽर्थे वर्तमानास्वित्यर्थः । एतच्च वक्ष्यमाणयोगाभ्यां द्वित्वैकत्वयोराघ्रातत्वादवसीयते ।
न च वक्तव्यम्, तत्र विकल्पपक्षे कथं वस्नसौ न भवतः इति यस्माद् 'अपवादविषयं परिहत्य उत्सर्गः प्रवर्तते' (का० परि० ५५) इति । यथासंख्यमिति । यद्यपीह पदमित्येकवचनं तथापि युष्मदः पदम्, अस्मदः पदम् इति प्रत्येकमभिसंबन्धाद् अर्थाद् द्वे पदे इति यथासंख्यं न विरुध्यते । द्विवचनं च द्वित्वार्थस्य सामर्थ्यलब्धत्वादेव न भवति । औत्सर्गिकं पुनरेकवचनं स्यादेव, यथा ‘माषेण क्रीतम्, मुद्गेन क्रीतम्' इत्येकेन द्वाभ्यां च क्रयो न संभवति, अर्थाद् बहुभिरिति गम्यत एवेति “वाऽम्शसोः" (२।२।६२) इत्यतो वाग्रहणमनुवर्तते, अधिकारस्येष्टार्थत्वात् । पुत्रो युष्माकमिति युष्मदस्मद्भ्यां षष्ठीबहुवचनम् एषां विभक्तावन्तलोपः, “सुरामि सर्वतः, सामाकम्" (२।१।२९;३।१६) इत्याकमादेशः, पक्षे वस्नसौ यथाक्रमं भवतः, चतुर्थीबहुवचनस्य "भ्यसभ्यम्" (२।३।१५) इत्यभ्यमादेशः, द्वितीयाबहुवचनस्य “आन्शस्"(२।३।९) इत्यान् ।।२२२।
[क० च०]
युष्मदस्मदोः। पदादिति नाशक्यते "पदात् पदम्" इत्यकरणात् तद्ग्रहणे कारणाभावाच्च । द्वितीयाचतुर्थीषष्ठीष्विति क्रमं विहाय यद् व्यतिक्रमं निर्दिशति, तद् बोधयति-क्वचिद् विभक्त्यन्तरेष्वपि वस्नसादयो भवन्ति । तेन 'श्रुतं वश्चित्रगुप्तस्य भाषितं मम चाप्रियम्' इति वो युष्माभिरित्यर्थः । तथा 'किं वो भीता इंव स्थिताः' । वो यूयमित्यर्थ इति कश्चित् । वस्तुतस्तु संबन्धविवक्षयैव तत्र षष्ठी | पदादिति न पूर्वदिग्योगलक्षणा पञ्चमी ‘पञ्चम्या निर्दिष्टे परस्य' (का० परि० २२) इति न्यायात् तद्ग्रहणे कारणाभावाच्च ।। २२२ ।