________________
अथ द्वितीये नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
२२२. युष्मदस्मदोः पदं पदात् षष्ठीचतुर्थीद्वितीयासु वसूनसौ [२|३|१]
[सूत्रार्थ]
के
पद से परवर्ती 'युष्मद् - अस्मद्' शब्दों से षष्ठी - चतुर्थी - द्वितीया विभक्तियों बहुवचन में निष्पन्न ( अर्थात् 'युष्माकम् - युष्मभ्यम् - युष्मान्' तथा 'अस्माकम्अस्मभ्यम्- अस्मान्') पदों के स्थान में क्रमशः 'वस्- नस्' आदेश विकल्प से उपपन्न होते हैं ।। २२२ ।
[दु० वृ०]
युष्मदस्मदोः पदं पदात् परं षष्ठी चतुर्थी- द्वितीयासु बहुत्वे निष्पन्नं यथासंख्यं वस्नसौ प्राप्नोति वा । पुत्रो युष्माकम् पुत्रोऽस्माकम् - पुत्रो वः, पुत्रो नः । पुत्रो युष्मभ्यम्, पुत्रोऽस्मभ्यम् - पुत्रो वः पुत्रो नः । पुत्रो युष्मान् पुत्रोऽस्मान् पुत्रो वः, पुत्रो नः । युष्मदस्मदोरिति किम् ? पुत्रस्तेषाम् ? पदादिति किम् ? युष्माकम्, अस्माकम् ।। २२२ ।
"
[दु० टी०]
युष्मदस्मदो० । यद्यपि प्रकृतिविभक्त्योः समुदायः पदम्, तथापि युष्मदस्मदोरेव पदमुच्यते । उभयोः स्थाने यो निष्पद्यते स लभतेऽन्यतरस्य व्यपदेशम् । यथा देवदत्तयोः पुत्रो देवदत्तस्य चेति । युष्मदस्मदोरित्यनेन सह द्वयोरपि संबन्धः । युष्मदस्मदोः सम्बन्धि पदं तयोरेव युष्मदस्मदोः सम्बन्धिनः पदादिति । संबन्धः पुनरप्रधानार्थेनार्थसङ्गतिलक्षण एव, न त्वेकेनैव सम्बन्धेनेति चरितार्थः, कथम् अन्येन संबध्यते ? सत्यम् । विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वमिति लोकप्रसिद्धम् । तेन भिन्नवाक्ये न भवति । स पचति, युष्माकं पुत्रो गायति । स पचति, अस्माकं पुत्रो रोदिति । आख्यातप्रधानं वाक्यम् । ननु ओदनं पचति, युष्माकं भविष्यति । ओदनं पचति, अस्माकं भविष्यति । व्यपेक्षालक्षणः संबन्धः पाकस्य युष्मदस्मदोरप्यस्त्येव, नैवम् । एकवाक्याश्रितो हि संबन्धोऽन्तरङ्ग इति ।