________________
३३८
कातन्त्रव्याकरणम्
सर्वनामत्वाद् अन्त्यात् स्वरात् पूर्वोऽक्प्रत्ययस्ततः स्त्रियामादा ।उष्ट्केिति । अज्ञाताद्यर्थे कप्रत्ययः । पाचिकेति । पचेर्तुण् । न त्वकारमन्तरेणापि के प्रत्यय इति उच्चारयितुं शक्यते । तत्कथमकार उच्चारणार्थः, येनास्वरः ककारो गृह्यते तस्मात् स्वरस्य निर्दिष्टत्वात् प्रत्ययविषये के भवन्निकारः पाठिका' इत्यत्रैव स्यात् । 'उष्टिका' इत्यत्रापि व्यपदेशिवद्भावेन कस्य प्रत्ययत्वमुच्यते । इह पुनः सर्वथा न स्यात् । ‘सर्विका' इत्यत्र अस्वरत्वादिति । नैतदेवम् । इह पुनः सन्निधानातक्कयोरेव ककारस्य ग्रहणं वेदितव्यम् । तच्चास्वरस्य ग्रहणे सत्युपपद्यते इत्यदोषः । तयोश्च प्रत्ययत्वादव्यभिचार एवेति । यत् प्रत्ययग्रहणं तदिह प्रत्ययसंज्ञाचोदितस्यैव ग्रहणार्थमिति । तेन व्यवहितस्य वुणादेरपि ग्रहणं भवतीति सर्वत्रेकारः प्रवर्तते ।
चेतनेति ।चिती संज्ञाने । हेत्विनन्ताद् "ईषिश्रन्थ्यासि०" (४।५।८५) इत्यादिना स्त्रियां युप्रत्ययः, स्त्रियामादा तकेति । 'तक हसनार्थः' (१।३२) । पचादित्वादच् । 'पाचकाभ्याम्' इति “अकारो दीर्घ घोषवति" (२।१।१४) इति दीर्घः । यदि कृतग्रहणं न स्यात् तदा स्त्रीलिङ्गविषये योऽकारस्तस्मिन्नपि स्यादित्याह - कृत इति |पुत्रकाम्येति । पुत्रस्येच्छा पुत्रकाम्या । पुत्रशब्दात् काम्यप्रत्ययः । ततः “शंसिप्रत्ययादः, स्त्रियामादा" (२।४।४९; ४।५।८०) बहुलेत्यादि । यत्तदोस्त्यदाद्यत्वं सर्वनामत्वादप्रत्ययः इति । 'जीवका, नन्दका' इति । ‘जीवतात्, नन्दतात्' इति वाक्यम् ।। २२१।
॥ इति त्रिलोचनदासकृतायां कातन्त्रवृत्तिपत्रिकायां नामचतुष्टये द्वितीयः सखिपादः समाप्तः॥
[क० च०]
के प्रत्यये० । ननु कथं तकेति प्रत्युदाहृतम्, प्रत्ययग्रहणाभावेऽनन्तरत्वादक्कयोरनुवृत्तौ सत्यां 'पाठिका, पाचिका' इति न स्यादित्युत्तरं युज्यते ? सत्यम् | प्रकरणमाश्रित्य प्रत्युदाहरणमिति केचित् । अन्ये तु प्रत्ययग्रहणाभावे ककारे इति क्रियताम् । ततः कारग्रहणस्य व्याप्त्यर्थत्वात् सामान्ये ककारे भविष्यतीत्याहुः । अपरे तु कृतग्रहणसामथ्यदिव सामान्यककारोपलब्धिः। अन्यथा स्त्रियामाकारपर इति कृतऽपि अक् - कयोरेवानुवर्तनात् 'पुत्रकाम्या' इत्यत्रैव सर्वथा न स्यादिति दिक् ।