________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
-
अभाषितपुंस्काद् विहितस्येति किम् ? न विद्यते खट्वा अस्या इति बहुव्रीहावप्रधानस्य कृते ह्रस्वे पुनः स्त्रियामादा । अज्ञाताद्यर्थे पुनः कप्रत्यय: । अखट्विका नित्यं भवति । तथा खट्टामतिक्रान्ता अतिखट्टिका । ह्रस्वस्येति किम् ? खट्वाका | हस्वविधाने क्वचिदिति वचनाद् दीर्घोऽप्यत्र दृश्यते । यदा तु न विद्यते खट्वा अस्या इति " शेषाद् वा” इति कः, तदां भवत्येव विकल्पः । ' अखट्टिका, अखट्का' इत्यपि दृश्यते । तथा 'अधातोर्यकाभ्यां स्त्रीकृताकारस्य ह्रस्वस्य वा ” । दण्डमर्हतीति दण्डादिभ्योऽर्हतीत्यर्थे यो दृश्यते । दन्त्यका,दन्त्यिका । चटकिका, चटकका । अज्ञाताद्यर्थे कः । अधातोरिति किम् ? शोभनः पाकोऽस्याः, शोभनो नयोऽस्याः इति सुपाकिका, सुनयिका | त्यण् – त्यपोर्नित्यम् - दाक्षिणात्यका । अत्रत्यिका दक्षिणापरा । पश्चाद्भ्यस्त्यण् शेषे दृश्यते । तथा क्वेहामात्रतत्रतसन्त्यबिति । भस्त्राजाज्ञेषाद् व्यस्वानां नञश्च वा - बहुभस्त्रिका, बहुभस्त्रका | अभस्त्रिका, अभस्त्रका | प्रधानस्य भस्त्राशब्दस्याभाषितपुंस्कत्वात् सिद्धमेव । अजिका, अजका । अनजिका, अनजका । ज्ञिका, ज्ञका । अज्ञिका, अज्ञका । “नाम्युपध०” (४ |२| ५१ ) इत्यादिना कः । आलोपो ऽसार्वधातुके । जानातीति ज्ञा । एषिका, एषका । द्विके, द्व्यके । एषा द्वे । अनञ्पूर्वके एकोदाहरणे एतदः " सौ सः (२।३।३२) सत्वम्, द्विशब्दाद् औकारद्विवचनम् | त्यदाद्यत्वे । सर्वनामत्वान्मध्येऽक्प्रत्ययः । स्विका, स्वका । अस्विका, अस्वका । ज्ञातिधनाख्ययोः सर्वनामत्वं नास्तीति । अज्ञाताद्यर्थ एव कप्रत्ययः प्रतिपत्तव्यः । अण्प्रत्ययेऽपि दृश्यते - मामिका युक्तिः, नरिका स्त्री । मामकशब्दोऽयम् अनन्तो निपातः शेषाद्यर्थे दृश्यते । नदादेराकृतिगणत्वाद् ईर्न भवति । नरं कामयतीति 'कै गै रै शब्दे' (१।२५६) । 'आतोऽनुपसर्गात् कः " | ( ४ | ३ | ४) । नरान् कामयते इति । " अन्यतोऽपि च " (४ | ३ | ४९) इति ड इत्येके || २२१ |
""
॥ इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां नामचतुष्टये द्वितीयः सखिपादः समाप्तः ॥
66
""
३३७
[वि० प० ]
के प्रत्यये ० । क इत्यकारस्योच्चारणार्थत्वात् । अस्वर इह ककारो गृह्यते । के प्रत्यय इति विषयसप्तमीयम् । प्रत्ययविषये यः ककारस्तस्मिन्नित्यर्थः । स्त्रियां कृतः स्त्रीकृतः, स चासावाकारश्चेति स्त्रीकृताकारः स एव परो यस्मादिति विग्रहः । सर्विकेति