________________
कातन्त्रव्याकरणम्
अजातावपि भवत्येव सादृश्यवृत्तेः , संज्ञाप्रकृत्योः को भवति बहुललक्षण एव ।। प्रतिकृतिः प्रतिरूपकम् प्रतिच्छन्दकमित्यर्थः । संज्ञायाम् इति अप्रतिकृत्यर्थम् । प्रतिकृताविति ।प्रतिकृतिविषये यत् सादृश्यम्, तत्र को भवति । प्रतिकृतिग्रहणसामर्थ्यात् सादृश्यविशेषणम् - अश्व इवायमश्वकः । अश्वसदृशस्य संज्ञेयम् । देवदत्त इवायं देवदत्तकः । देवदत्तप्रतिकृतिरयमित्यर्थः । संज्ञाप्रतिकृत्योरिति किम् ? गौरिव गवयः, काष्ठादिमयं यत् प्रतिच्छन्दकं तत् प्रतिकृतिरुच्यते । चञ्चेव चञ्चा, वधिकेव वध्रिका, खरकुटीव खरकुटी दर्शनीयो मनुष्य इति सोऽयमित्यभिसंबन्धात् तच्छब्देनाभिधानम् । चञ्चा तृणमयः पुरुषः, वध्रिका चर्ममयी वरत्रा । खरकुटी नापितस्य शालिका इति । एवं प्रतिमासु स्कन्दो विष्णुरिति । आलेख्येषु भीमोऽर्जुन इति । ध्वजेषु सिंहो गरुड इति । एवमादिषु बहुलत्वात् कप्रत्ययो दृश्यते । एते खल्वज्ञातादयोऽर्थाः । एष्वक्प्रत्ययो ऽपि यथायोगमुदाहरणीयः ।। २२० ।
[वि० प०]
अव्यय० । अनुपघातेनान्त्यात् स्वरात् पूर्वो भवन्नायमागमः अभिधानादज्ञातादयोऽप्यर्थाः प्रतीयन्तेऽनेनेति प्रत्ययोऽपीति आह - अक्प्रत्यय इति । क इति सामान्यनिर्देशाद् बहुत्वमेव गम्यते इत्याह – कप्रत्ययश्च बहुलमिति । न च वक्तव्यमिह श्रुतत्वाद् अध्ययसर्वनाम्न एव कप्रत्ययोऽपि भवतीति भिन्नविभक्तिनिर्देशात् । अन्यथा अक् च कश्चेति द्वन्द्वे सति 'अक्की' इत्येकविभक्तिनिर्देशमेव कुर्वीतेति । कप्रत्ययश्चेति । चकारेणाक्प्रत्ययो हि क्वचिद् बहुलं भवतीति वेदितव्यम्, यद् वक्ष्यति विभक्तेश्च पूर्व इष्यते आख्यातस्य चेति ।
__ युष्मकाभिरिति । एषां विभक्तावन्तलोपे पश्चादात्वं व्यञ्जनादाविति आत्वं विभक्तेश्चेति सर्वनाम्नो विभक्तरित्यर्थ: । अव्ययानां विभक्तरसम्भवाद् इहापि विभक्तेरन्त्यात् स्वरात् पूवोऽक् इति प्रतिपत्तव्यम् । तत्राप्योकारभकारसकारादिविभक्तिं वर्जयित्वा द्रष्टव्यम् । अत एव बहुलत्वादिति । तेन ‘युवकयोः, आवकयोः । युष्मकासु, अस्मकासु । युष्मकाभिः, अस्मकाभिः' इति । इह सर्वनाम्न एव अन्त्यात् स्वरात् पूर्वो भवति. न तु विभक्तेः । त्वयका, मयका' इति विभक्तेरन्त्यात् स्वरात् पूर्वोऽक् स च विभक्तिग्रहणन गृह्यते, एवम् ‘अस्थानिनि' इत्येवं भवति । आख्यातस्य चेति तत्राप्यन्त्यात स्वगत् पूर्व इति संबन्धः । कुत्सितं पचति, कुत्सितं भिन्द्धीति वाक्यम् । भिन्द्धकीति । भिदिः