________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
३३१ स्तोककम् अत्यल्पकमित्यर्थः । ह्रस्व इति दीर्घविपरीते वर्तमानादित्यर्थः । ह्रस्वकोऽतिह्रस्व इत्यर्थः । ननु ह्रस्वोऽल्प एव किं भेदेन दर्शितम् । नैवं सत्यपि ह्रस्वत्वे महत्त्वगुणयुक्तं महदेव भवति । ह्रस्वहेतुकायामपि संज्ञायां गम्यमानायां को भवत्येव - वंशको दण्डकः । संज्ञायामिति संज्ञामात्रे गम्यमाने को दृश्यते इति भावः । तथा च 'धानुयाकः, शङ्खयाकः' इत्यादि लोकप्रयुक्तो दृश्यते । आचार्यमतं तु,
अज्ञाने कुत्सिते चैव संज्ञाया (दयाया)- मनुकम्पने।
तयुक्तनीतादप्यल्पे वाच्ये हस्वे च कः स्मृतः॥ किमनेन नियमेन यत्र.को दृश्यते तत्रानेन प्रतिपत्तव्यः । तथा च - बहुव्रीहौ नवृदन्ताद् इत्यादि यथालक्ष्यम् । दयायां मनुष्याणामविषये ‘इक - इय-इन' एते तद्धिता दृश्यन्ते लोकोपचारात्-देविकः, देवियः, देविनः । बहुस्वरान्न दृश्यन्ते- देवदत्तकः । दृश्यन्ते च -प्रजापतिकः, प्रजापतियः, प्रजापतिनः । शेवलिकः, शेवलियः, शेवलिनः । उपात् तश्च - उपिकः, उपियः, उपिनः, उपितः (उप्तः) । तथा षषश्चान्तस्य ड:षडिकः, षडियः, षडिनः, षड्डः । ऋदन्तान्नयौ -सवितृयः । उदन्ताच्च – 'भानुनः, भानुयः' इत्यादिन वक्तव्यमिति भावः ।ह्रस्वे-“कुटीशमीशुण्डाभ्योरः" | कापवादस्तद्धित एव लोकतः सिद्धः – 'कुटीरः, शमीरः, शुण्डारः' स्वभावतः पुंल्लिङ्गा । कासूगोणीभ्यां तमादिनिपातनादेव तरः- ह्रस्वा कासूः कासूतरी, ह्रस्वा गोणी गोणीतरी । नदादित्वाद् ई: । कासूरिति शक्तिरायुधविशेष उच्यते। गोणीति लोकप्रसिद्धम् । कापवादोऽयं योगः । तथा "वत्सोक्षाश्वर्षभाणां स्वभावस्य तनुत्वे गम्यमाने" | शैशवस्य तनुत्वे वत्सतरः । यौवनस्य तनुत्वे उक्षतरः । अश्वभावस्य तनुत्वे अश्वतरः, यो गर्दभेनाश्वायामुत्पन्नः स उच्यते। सामर्थ्यस्य तनुत्वे ऋषभतरः, भारवहनाक्षम ऋषभ उच्यते। तथा तमादिनिपातनादेव यत्तदेकेभ्यो द्वयोरेकस्य निर्धारणे डतरो वा । यतरो भवतोर्देवदत्तः । ततरः आगच्छतु । यो भवतोर्देवदत्तः स आगच्छतु । एकतरो भवतोदेवदत्तः, एको भवतोर्देवदत्तः। तथा जातिवृत्तिभ्यश्च बहूनां डतमः । यतमो भवतां कठस्ततम आगच्छतु । यो भवतां कठः स आगच्छतु । एकतमो भवतां कठः, एको भवतां कठः । तौ किमः - कतरो भवतोर्देवदत्तः, कतरो भवतोः । कतमो भवतां देवदत्तः, कतमो भवतां कठः । एकस्य निर्धारणे वेति तत्रापि संबध्यते ।